SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८१६ आत्मतत्त्वविवेके सटीक गोवैद्यको गोचिकित्मकः, सोऽपि हि गवां पाटनप्शोषणादिसाहसमनुतिष्ठत्येवेत्यर्थः ॥ भगौ० टी० । इयता प्रबन्धनात्मतत्त्वविवेकः सिद्धोऽपि न मोक्षहेतुः, प्रत्युत विरोधौति निष्फल्नः प्रयास इत्यत आह । सिद्धोऽपौति । आत्मा हेयः संसारनिदानरागद्दषहेतुत्वात् पारौरादिवत् । नेवास्य भावनं मोक्षहेतुः वैराग्यहेतुज्ञानत्वात् दुःखजानवत् । आत्मज्ञानं न मोक्षहेतुः रागद्वेषहेतुज्ञानत्वादित्यर्थः । तथा सति मोक्षसाधनेऽपि प्रवृत्तिर्न स्यात्, तस्या दृष्टसाधनताधौजन्यत्वादात्माभावे चेष्टसाधनत्वाभावादित्याह । अनात्मेति । अभियोगः प्रयत्नः । प्रत्यतात्मनोऽस्तित्वधौरेव रागादिहेतुः, परलोकभागिनो निषिद्धकर्मभोकरभावेऽनिष्टसाधनेऽपि प्रवृत्तेरप्रत्यूहादित्याह । दयञ्चेति । नास्तिक्यं नास्ति कर्मफल मिति निश्चयः । भोगमिति । उपकारं मनुते इत्यनुषज्यते ॥ रघु० टौ । सुखं चावाप्नुमिति दृष्टान्तार्थम् । अभियोगः प्रयत्नः । नास्तिक्यं नास्ति परलोकः नास्ति कर्मफलमिति निश्चयः । तच्चेति । परलोकाद्यभावनिश्चयनिवर्तकस्य १) नरकभयग्य विरहेण रागवशान्निःशङ्कमभक्ष्यभक्षणाद्याचाराबरकसन्ततिम्त्यद्यत इत्यर्थः । विपर्ययान्मोक्षहेतोरनुपादानात् मोक्षपरिपन्थिनश्चापरीहारात् । (१) निश्चये निवर्त्तकस्य इति पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy