________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
પૂ
दयोऽपि निःशङ्कमुल्लापाः। यदक्तमुपकारिणि रज्येत, अपकारिणं द्विष्यादिति तदेवमेतदिति । यो हि मोक्षमुपकारं मनुते स तद्धेतौ रक्तः तमुपाददानः तत्परिपन्धिनं देषादलंप्रत्ययाहा परिहरन्नेव समौहितं ममासादयेत्, न तु विपर्ययात् । यस्तु भोगं, सोऽपि तथा इत्यनुकूलमेव प्रतिकूलत्वेन गृहीतं मन्दैः। अन्यत्रानुरज्येत, अन्यत्रापि दिष्यादिति तु न दृष्टं गोवैद्यकेऽपौति ॥
शङ्क० टौ० । अयमौदृश इति । प्रात्मा नित्यविभुरित्यर्थः । हेयत्वे हेतुमाह । श्रात्मदर्णी हौति । अनात्मदर्शिन इति । दुःखवन्तमात्मानं दृष्ट्वैव नदुःखहानेच्छा मुमुक्षा सा आत्मदर्शिन एवेत्यर्थः । एतदेवोपपादयति । न हौति । सुखं वा प्राप्नुमिति दृष्टान्तार्थम् । अभियोगः । सुखाप्तिदःखहानानुकृल्लो व्यापारः । नास्तिक्यमिति । नास्ति कर्म नास्ति कर्मफलमिति निश्चयवत्वं नास्तिक्यं, ततः किमित्यत श्राह । तच्चेति । विषयषणा तावदगम्यागमनाभक्ष्यभक्षणापेयपानाद्यभिलाषः तत्परितं तद परकमनर्थ नरकहेतुभूतमधर्म बहु जनयेदित्यर्थः । न चंदेवमिति । यदि नास्तिक्यं न द्रढयेदित्यर्थः । सुखं जौवेदिति । भक्ष्यपेयादावविगानतः प्रवृत्तिपरः स्यात् । तद्धतौ। मोक्षहेतौ । तत्परिपन्थिनं भोगाभिलाषम्। विपर्ययात् मोक्षपरिपन्थिसेवनात्। मोऽपि तथेति । भोगपरिपन्थिनं परिहरेदित्यर्थः। अन्यत्रापौति। समौहितादन्यत्रेत्यर्थः ।
(१) निःशङ्कप्रलापा इति १ पु. पा.
For Private and Personal Use Only