________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
प्रात्मतत्त्वविवेक मटौक
जनकताया एव कल्पनात्। अपकृष्टमहत्त्वे चात्मनोऽवयक्त्विमनित्यत्वं च स्यात्। विशषेति। नित्यत्वेन विशेषणात्र घटादौ व्यभिचारः । न च म्पर्शवत्वमुपाधिः, साधनव्यापकत्वात् । शास्त्रार्थति । शास्त्र नानास्थानेषु विस्तरेणाभिहितानामर्थानामेकत्र सझेपेणाभिधानमित्यर्थः । बाधेति । बाध आगमेन विरोधः । प्रतिरोधोऽनुमानेन । तदलमिति । आगमो दुर्बोधत्वपर इति भावः ॥
स्यादेतत्। सिद्धोऽप्ययमौहशो हेय एव, आत्मदणे हि तदपकारिणि रज्यते, तदपकारिणं च दृष्टि, रागद्वेषौ च मूलं संसारस्य, यस्तु न तं पश्येत् नामो तदपकारापकारिणमपि, ततो न रज्येत, न द्विष्यात्, न संसरेदिति जाङ्गलिकेन (विषविद्यावता) नैर्विष्यवत मुमुक्षणापि नैरात्म्यमेव भावनौयमिति चेत् । न । अनात्मदर्शिनो मुमुक्षत्वव्याघातात् । न ह्यात्मानमप्रतिसन्धाय कश्चिदुःखं हातुमिच्छेत् सुखं वाऽवाप्तम् । मया (स्वर्गापवर्गफलभागिना भवितव्यमित्यभिप्रायस्य यावदभियोगमनुत्तेः। अननुत्तावभियोगनिवृत्तौ फलामिद्धेः । इयं च नैराम्यष्टिर्नास्तिक द्रढयेत्। तच्च प्रबलविषयतृष्णा र निष्णातमनर्थमनन्तं प्रसुवीत, न चेदेवं कुतो यावज्जौवेत् सुखं जोवेदित्या
(१) स्वर्गापवर्गपदे सुखदुःखाभावपर इति टिप्पणी । (२) संसमिति १ पु० पाठः ।
For Private and Personal Use Only