________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
धर्मानाश्रयत्वप्रसङ्गादित्यत्र धर्मपदं गुणपरम् । तेन जातिमत्तया न व्यभिचारः । दोषान्तरमाह । विशेषगुणवत इति । विशेषगुणवनित्यं मूर्तमारम्भकमेवेति व्याप्तेः । श्राद्यविशेषणेन मनसो द्वितीयेनान्यावयविनो व्यदासः । आगमेन बाधः अनुमानेन प्रतिरोध इत्याह । बाधप्रतिरोधाविति । क्रियाक्रमोपपत्तेरिति । ज्ञानायोगपद्योपपत्तेरित्यर्थः । महतोऽपि महौयांसमणीयांसमणोरपोति स्तुतिपर पागम इत्याह आगमस्त्विति ॥
भगौ. टौ । अमिद्धेरिति। साध्यविकलो दृष्टान्त इत्यर्थः । तदलमिति । प्रथमविरोधादणत्वबोधकागमो दुर्बोधत्वपर इति तद्विरोध इत्यर्थः ॥
रघु० टी० । प्रथमेति। प्रहत्तेरदृष्टेष्टसाधनवाद्यवगमसाध्यत्वादिना च प्रवृत्तिं तदसम्भवादित्यर्थः। अविभुत्व इति। आत्मनो मूर्तत्वे नानादिग्वर्तिनां दहनादौनां युगपददृष्टवदात्मसंयोगाभावात् युगपत् क्रियानुत्पत्तिप्रसङ्गः । न चेति । आत्मगुणो हि प्रयत्नः म्वाश्रयसंयुकेन शारीरेण साक्षात् संयोगात् सन्दंशिकायां, क्रियावत्मन्दंशिकासंयोगाच्च लौहे क्रियां जनयति, निध्वियद्वारकादपि जनकल्वे शरीरसंयुक्ताकाशसंयोगादपि तथात्वप्रसङ्गात्, तथैव चादृष्टमपि क्रियां जनयेत्, न च तत्सम्भवतीत्यर्थः । अथ जनयत प्रयत्नो यथा तथा, अदृष्टन्तु यथा कथञ्चित् परम्परया स्वाश्रयसंयोगादेव जनयति, अतिप्रसङ्गस्तु वैभवेऽपि समान इति नेत्। न । लाघवेन स्वाश्रयसंयोगेन
For Private and Personal Use Only