________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
आत्मवत्वविवेक मटोक
त्तदुत्पत्तिः, साक्षात् क्रियावद्दारकस्य तस्याभावात् । अतथाभूतस्य च तहेतुत्वेऽतिप्रसङ्गात्। मूर्त्तत्वे नित्यस्यास्मदादिप्रत्यक्षधर्मानाधारत्वप्रसङ्गः, विशेषगणवतामारम्मकत्वप्रसङ्गश्च । मक्रियत्वे मूर्तत्वप्रसङ्ग इति शास्त्रार्थसंग्रहः ।
अणुरेवासौ, विज्ञानासमवायिकारणसंयोगाधारत्वान्मनोवत्। अणीयांसमणोरपोति बाधप्रतिरोधाविति') कश्चित्। तदयुक्तम्। आत्मन्यविभौ मनमोऽणत्वासिद्धेः, तत् संयोगक्रमादेव क्रियाक्रमोपपत्तेः । आगमस्तु महतोऽपि महौयांसमिति प्रथमपादमपहायोपन्यस्तस्तदलमनेन ॥
शङ्क० टौ. । अत्रेत्युकहेतुषु २)। अविभुत्व इति। अदृष्टवदात्मसंयोगासमवायिका क्रिया विप्रकृष्टदहनपवनादेरात्मनो विभुत्वमन्तरेण न स्यादित्यर्थः । ननु पारीरसंयुक्रमाकाशं तत्संयोगादेव दहनपवनादौ क्रिया स्यादित्याह । न चति । संयुकसंयोगेन यत्र क्रिया तत्र क्रियावदेव द्वारं संभवति यथा मन्दंशादिक्रियया लौहा दिक्रिया, न चाकाशं क्रियावदित्यर्थः । अतिप्रसङ्गादिति ! शरीरमयताकाशसंयोगादितस्ततः क्रियोत्पत्तिप्रसङ्गादित्यर्थः । न चाऽदृष्यवदात्मसंयोगस्यापि क्रियाहेतुत्वे तदवस्थ एवातिप्रसङ्गः, तृप्तक्रियाकारणान्तराभावे या क्रिया साऽदृष्टवदात्ममंयोगजन्येवेति नियमात् ।
(१) बाविरोधादिति इति पाठः । (२) अत्र । उक्त हेतुघ इति पाठः ।
For Private and Personal Use Only