________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१०
आत्मतत्वविवेके सटौके
संस्काराधीनं संस्कारश्च तदनुभवाधीनः तदनुभवश्व भूयोदर्शनाधीनः, एतच्च सर्व प्राग्भवौयसंस्कारमन्तरेणानुपपन्नमिति भावः। नन्चियमेव प्रक्रिया कुत इत्यत आह । अनुभवादौनामिति । तदभाव इति । व्याप्यनुभवाभावे संस्काराभावस्तदभावात् स्मरणाभावस्तदभावादनुमानाभावस्तदभावादिच्छाभावस्तदभावात्प्रवृत्त्यभाव इति न्यायसिद्धमित्यर्थः । अन्यथेति। बलवत्प्रमाणावधूतकारणमन्तरेण कार्योत्पत्ती तदाकस्मिकत्वं स्यादित्यर्थः । अत एवेति । प्राथमिकप्रवृत्त्यनुपपत्तेरित्यर्थ:(१) । युक्त्यन्तरमाह । दर्शनेति । योऽहं चक्षुषाऽद्राक्षं सोऽहं तमर्थ त्वचा स्पशामति कर्दकरणाभ्यां भेदेनैव ग्रहादित्यर्थ:(२) । प्रतिबन्धेति । विरुद्धधर्मविरहिविषयप्रतिमन्धानविषयत्वादेकः कति प्रतिबन्धसिद्धिरित्यर्थः । श्राद्यप्रवृत्त्यन्यथानुपपत्तेरेव परलोक्यात्मसिद्धिश्च । एतदेवाह । अनादिश्चासाविति । वीतरागेति । रागवच्चन्मदर्शनादित्यर्थः । मत इति प्रागभावव्यवच्छेदार्थम् । समवायिकारणत्वमिच्छादिसत्त्वादेव सिद्धमिति हृदयम् । द्रव्यत्वे सत्यमूर्तत्वादित्यत्रामूतत्वमवच्छिन्नपरिमाणायोगित्वं, तच्चाद्यक्षणे घटादावपौति नित्यपदम् । निष्क्रियश्चेत्यत्र सामान्यं दृष्टान्तः । प्रत्यक्षधर्मेत्यत्रापि नित्यत्वे सतीत्यनुषञ्जनीयम् ॥
रघु० टी० । इदं विरुद्धधर्मसंसर्गविरहिविषयत्वं । देहस्यैवेति। तथा च (३)पूर्वापराहम्प्रत्ययास्पदयोर्भदाग्रहादभेदप्रतिसन्धानं नानुप
(१) रेवेत्यर्थ इति पाठः । (२) अनुभवादित्यर्थ इति पाठः । (३) पूर्वापराम्प्रत्ययविषयोरिति १ पु० २ पुस्तके च पाठः ।
For Private and Personal Use Only