________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८०७
दर्वचत्वात्। नियतं पौर्वापर्य तावदस्तौति चेत् । न। शिष्याचार्यधियामपि तत्मत्त्वात्। मादेश्ये मतौति चेत्। न। स्थिरस्यैकदेशस्य भवद्भिरनभ्युपगमात् । अभ्युपगमे वा स एवात्मेति सिद्धं नः समोहितम् । देहम्यापि बाल्या दिभेदेन भेदात् सन्तानक्यमेव तथास्तौति चेत्। किं सन्तानत्वम् ? कार्यकारणप्रवाहत्वमिति चेत् । अनतिप्रसनस्य तस्यैव दुर्वचत्वात्, सुषुप्तौ सन्तानविच्छेदाच्च । प्रवृत्तिविज्ञानसन्तानोपरमेऽप्यालयविज्ञानसन्तानोऽनुवर्तत इति चेत्। न। जागरे स्वतन्त्रमन्तानदयाननुभवात् । सर्व एवालयोऽनुभूयते स्वमात्र-(१) साक्षिणा स्वेन कश्चित् परेणापि । स च उपादानं प्रवृत्तिविज्ञानस्यापि, एकस्यापि ज्ञानदयोपादानत्वे विरोधविरहात्, अनुपादानम्यापि प्रवृत्तिविज्ञानस्य ज्ञानाद्यन्तरनिमित्तत्वान्नासत्त्वं, न वा सन्तानानन्यम्। श्राश्रयश्च प्रवृत्तिविज्ञानस्य सुखादेश्च। अत एवालय इत्यच्यते । ग्टह्यते चाऽहंज्ञानेऽहं सुखोत्यादिना स्वोपादेयेन प्रवृत्तिविज्ञानान्तरेणेति चेत् । शिष्याचार्यधियां कुतो नैकसन्तानत्वं, सादेण्यादेर्नियामकस्य निराकृतत्वात्। वैजात्यादिति नेत् । न। सन्नानयो(जात्ये मानाभावात् । अनन्तालयवैजात्ययोः कल्पनामपेक्ष्य एकालयकल्पनाया एव न्याय्यत्वाच्च । क्षणभङ्गस्य च भनत्वात्, क्षणभङ्गे च वैजात्यासम्भवस्योकत्वात् । अपि चान्येनानुभूतस्यान्येन स्मरणे कुतो नातिप्रसङ्गः ? एकसन्तानत्वादेरनुभवित्प्रभवत्वस्य च नियामकताया निरासात्, एकजातीयारीरदेशतायाश्च जन्मान्तराव्यापकत्वात् । श्राद्यप्रवृत्ती जन्मान्तरानुभूत
(१) स्वमते साक्षिणेति १ पु० पा० |
For Private and Personal Use Only