________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेक मटौके
पक्षताया विगमेनाधिकरणम्य पक्षम्य विगमाद्वैयधिकरण्यं विगताधिकरणत्वमाश्रयामिद्धत्वं । अथानुभवोत्तरो ज्ञानसन्तानविशेष एव संस्कारः पक्षः, तदा तस्य यत् स्वरूपं वैजात्यादि तम्या सिद्धत्वादाश्रयासिद्धिरित्याह । विशेषेति । अथानुभवोत्तर कार्यप्रवाहमात्रं पक्षः, तदा रूपादिप्रवाहस्य स्मृतिजनकताया विरुद्धत्वाबाध इत्याह । अविशिष्टोत्तरेति । अथ पौताद्यनुभविटमन्तानोपादेयत्वेन तादृशसन्ताने पौतादिम्मृतिजनकत्वं साध्यते, तदा आन्तरालिकसान्तानिके बाधः, फलानुपहिते स्वरूपयोग्यताया अपि भवद्भिरनभ्यपगमात्, शिव्याचार्यस्थले व्यभिचारश्च । श्राचार्यज्ञाने शिष्यज्ञानव्यावृत्तस्य सन्तानत्वम्य दुर्वचत्वादित्यपि केचित् ॥
न चातौन्द्रियोऽपि मंस्कारः सौगतनये संभवति । तस्य ज्ञानत्वे परोक्षत्वानुपपत्तेः, अज्ञानत्वे ज्ञानोपादानकत्वायोगात्, सन्तानान्तरत्वे ज्ञानस्यापि पारोक्ष्ये तदन्तःपातिनः स्मृतिसुखादेरपि तथा भावप्रमङ्गादिति। तदिदमुक्तरूपं प्रतिसन्धानं निमित्ततया व्याप्तं अनिमित्तकत्वे नियमानुपपत्तेः। तच्चानेककर्तृकत्वे नास्तीति व्यापकानुपलब्ध्या विपक्षान्निवर्तमानं निमित्तवत्येककर्तृकत्वे विश्राम्यतौति प्रतिबन्धमिद्धिः । एवं च मति अन्वयोऽपि नर्तकौम्रलताक्षेपादौ द्रष्टव्यः। सैव हि भूलता त एव वा परमाणवः प्रतिसंधीयमाना नाज्ञाननिमित्तत्वेऽवस्थिताः। विरुद्धधर्मविरहिविषय
For Private and Personal Use Only