________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
१६६
जनयतीति नोक्तदोष इत्यत आह । परम्परयेति । नौलानुभवानन्तरोत्पन्नपौतानुभवरक्तानुभवादिभिः प्रत्येकं संस्कार (१) एवं स्मृतिं जनयतीत्यवश्य मङ्गीकर्तव्यं तथा च पौतानुभवजनितसंस्कारसन्तानेऽपि नौलस्मृतिः स्यादित्यर्थः । स्वोपादान एवेति । संस्कार: स्वसमवायिकारण एव स्मृतिं जनयतौत्यवश्य मङ्गौ कर्तव्यमित्यर्थः । ततः किमित्यत श्राह । तथा चेति । अनुभवानन्तरं संवत्सरानन्तरमपि भवन्तौ स्मृतिः संस्कारस्य तदुपादानम्य च श्रात्मनः स्थैर्यमाक्षिपतौत्यर्थः ॥
भगौ० टौ० । यदि ज्ञानविषयो स्फुट: तदा विषयाविषयव्यवस्था न स्यात् घटज्ञानेऽप्यस्फुट: पटोभासत इति सुवचत्वादित्याह । तथात्व इति । एवमेकचैव विषये दूरत्वादूरत्वयोः स्फुटत्वास्फुटत्वे समन्वयति । मांगेत्विति । बहुतरान्यतरधर्मविषयज्ञानं तत्प्रयोजकमित्यर्थः । तदुत्तरबुद्धिधारामात्ररूपस्त्वतिप्रसक्त दूत्यभिप्रेत्योपसंहरति । तस्मादिति । सन्तन्यमानोऽस्थायौत्यर्थः । तथात्वे दोषमाह ।
afa | प्रवृत्तिविज्ञानातिरिक्रसंस्कारसन्तान एव स्मृतिः स्यात न प्रवृत्तिविज्ञानरूप आत्मनि, तथा चाहं स्मरामौति धौर्न स्यात्, न ह्यन्यत्र संस्कारोऽन्यत्र स्मृतिरित्यर्थः । ननु प्रवृत्तिविज्ञानोत्पादानभवेन विजातीयः संस्कारोऽपि जनित इति तस्य स्वसन्तान एव स्मृतिजनकत्वान्नातिप्रसङ्ग इत्यत श्राह । परम्परयेति । सन्तानत्वं यदि पारम्पर्यमात्रं तदातिप्रसङ्गः, उपादानत्वन्तु व्यवहितानुभवस्य न सम्भवतीति पूर्वसंस्कारसन्तान एवोत्तरस्य तस्योपादानं वाच्यं तथा च
(१) प्रत्येकं संस्कारसन्तानो जनितः सर्वत्र च नौलानुभव एव मूलम् । तथा चेति २ पु० पा० ।
For Private and Personal Use Only