________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
आत्मतत्त्वविवेके सटौके
प्रत्तिसंताने फलानवकाशप्रसङ्गात्, अन्यत्र संस्कारेऽन्यत्र फले ऽतिप्रसङ्गात्, परम्परयैकोपादानतया नियमे संस्कारान्तरसन्तानेऽपि स्मृतिप्रसङ्गात्१) । तस्मात् स्वोपादान एव स्मृतिं करोतौति गत्यन्तराभावादापाततिक्तमप्युपेयमेवार) तथा च स्मृतेः कालान्तरसम्बन्धात् संस्कारतदुपादानयोः स्थैर्यमयत्नसिद्धमवर्जनौयञ्चेति(२) ।
शङ्क० टौ. । निराकारपक्षेऽपि पटुत्वापटुत्वे एकत्र न सम्भवत इत्यत पाह। निराकारेति। तथात्वे वेति। अस्फुट(५)विषयत्वे सवं ज्ञानं सर्वविषयकं स्यादित्यर्थः । नन्वेवं संयोगतदभावावपि नेकत्र स्यातामत पाह। मांश इति। तत्राऽवच्छेदभेदस्य दर्शितत्वादिह तु विषयोऽवच्छेदकः स एव विरोधघटक इति भावः । स्वाभिमतमुपसंहरति । तस्मादिति । तत्रैवेति। संस्कारम्मृतिसन्तान एवेत्यर्थ:(4)। फलं स्मृतिः प्रत्यभिज्ञानं च, प्रवृत्तिविज्ञानसन्ताने तु (६)फलं दृश्यते गेहे स घट इति स्मरणात् प्रवृत्तेरिति भावः । ननु यत्र नौलानुभवो मूलकारणं तजनितः संस्कारसन्तानः(७) फलं
(१) तदुत्पत्तिप्रसङ्गादिति पाठः। (२) अभ्य पेयमिति पाठः । (३) चेति पाठः। (४) बस्फट इति नास्ति । (५) स्मृतिसन्तान एवेति पाठः । (६) प्रत्तिविज्ञानसन्तान इति पाठः । (७) संस्कारस्तति पाठः ।
For Private and Personal Use Only