________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
वात्स्मृत्यनुत्पाद इति। मैवं। तत्प्रभवत्वं हि न तज्जन्यत्वं तदपादेयत्वं वा, अन्तरितसान्तानिके तदभावात् । नापि तत्प्रयोज्यत्वं, शिष्याचार्यस्थलेऽतिप्रसकेः । तत्मान्तानिकत्वे सति तदत्तरत्वं तदिति चेत् । न
अतिप्रसकसन्तानवनिर्वचनाशक्यतायाः प्रागेव दर्शितत्वात्। पौतादि. पर, ग्यासकं हि वैजात्यं पौतादिविषयत्वं वा स्यात्, पौताद्याकारत्वं वा, अवान्तरजातिभेदो वा। तत्र ज्ञानस्य पौताद्यनुभवप्रभवस्य नौलादिज्ञानस्य पीतादिविषयोपधानमपगमय्य परित्यज्येति दयोयंदासः । चिद्रूपतामात्रेणेति चरमस्य । अतएव पौतादिस्मरणकुर्वअ॒पत्वं नियामकमिति परम् । अन्वयव्यतिरेकग्टहौताया अनुभवम्य स्मरणजनकताया निर्वा' व्यापारकल्पनाया एव न्याय्यत्वात्, जातिविशेषस्य योग्यानुपलम्भबाधितत्वात्, योग्यव्यकिवृत्तित्वेनैव जातेयोग्यत्वात्, रतपौतोभयस्मारके नौलानुभवे सङ्करप्रसङ्गात्, तज्जातीयं प्रति जनकत्वेन जात्यन्तरस्य एवं तज्जातीयं प्रत्यपौत्यनवस्थितजातिपरम्पराकल्पनप्रसङ्गाच्च । एतेनाङ्कुरकुर्वद्रूपत्वं व्याख्यातम् ।
पूर्वज्ञानाकारः सर्वस्मिन्नत्तरज्ञानेऽनुवर्तत इति तदाकारताविगमो नास्तीत्याशङ्गते । सर्वाकारत्वमिति। न हौति । तवाकाराकारिणोरभेदादिति भावः ।
निराकारपक्षेऽपि यावानर्थो बुद्धेविषयस्तावति स्फुटैव सा, यत्र चास्फुटा नासौ तस्य विषयः। तथात्वे वा विषयेतरव्यवस्था न स्यात् । सांशे त्वर्थे युक्तमेतदिति दर्शितं प्राक् । तस्मादतौन्द्रियः संस्कारः परिशिष्यते । स च न संतन्यमानः तचैव स्मृत्यादिप्रसङ्गे
For Private and Personal Use Only