________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४
आत्मतत्त्वविवेके सटौके
प्रसङ्गो दूषणमतिस्फुटत्वान्नाभिहितम् । एवञ्चेति। नौलाद्यनुभवस्य तत्वेनानुभवत्वेन वा पौतस्मरणप्रयोजकल्वे । अननुभूतेऽपि पौते स्मरणं स्यात्। नियामकरूपाभावात् । अप्रयोजकत्वे च(१) नानुभूतेउपौत्यर्थः ।
शालिप्रभवस्य बौजस्य शालित्व र प्रतिसंधानवनियम इति चेत्। न। क्षौरजम्बरसपायिनौलधवलकलरवजनितविपरीतपारावतवदनियमदर्शनेन तस्याप्रयोजकत्वात्। वैजात्यन्तु विशेषो भवेत् , यथा क्षौरावसेकादम्लत्वं परिहृत्य माधुर्यमुपादायानुवर्तमानाऽऽमलको कालान्तरेऽपि फले माधुर्यमुन्मौलयति, लाक्षारसावसेकादा धवलिमानमपहाय रक्ततामनुवर्तमानं कार्पासबोज कुसुमेषु रक्तताम्, न चैवं प्रकृते, जपाकुसुमाद्युपधानसन्निधानेऽपि) तद्रूपतामनादाय धवलिमानमेव संदधानस्य स्फटिकस्येव विज्ञानस्य विषयोपधानमपगम्य) चिद्रपतामात्रेणानुवृत्तेः। सर्वाकारत्वमेव सर्वज्ञानानां किन्तु कश्चिदाकारः पटरन्ये त्वपटव इति स्वदर्शन
(१) त्वेऽपौति १ पु० पा० । (२) शालि प्रतिसंन्धानवदिति पाठः । (३) जवाकुसुम इति पाठः। (8) कुसुमाद्यपधाने इति पाठः । (५) –मपगमय्य इति पाठः ।
For Private and Personal Use Only