________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
स्वभाव इति मनसि कृत्याह । दूषणेति । भावस्वभावसन्देहे ऽपि वितण्डाकथायां वादिसाधननिष्ठदूषणावसरे क्षेपकारित्वाक्षेपकारिवरूपस्वभावानिश्चयोऽपि सहकारिमाहित्यामाहित्याभ्यां करणाकरणे उपपन्ने व्याप्तिग्राहकमानाभावात् कथायां वादिसाधन - दूषणाभिधानरूपं यत् पूर्वरूपं तस्य निर्वाहेण कथापर्यवसानादित्यर्थः। तथापि स्थैर्यपचे भावस्वभावः समर्थनीय एवेत्यत आह । उत्तरेति ॥
रघु० टी० । प्रक्षेपकारित्वान्यथानुपपत्त्या चणिकत्वं मिषाधयिषुर्भावस्वभावं पृच्छति । स्यादेतदिति । कथायाः जल्पस्य । पूर्वरूपं परपक्षखण्डनम् उत्तरपक्षः स्वपक्षस्य प्रकृते स्थैर्यस्य स्थापनम् ।
तथाहि करणं प्रत्यविलम्ब इति कोऽर्थः । किमुत्पत्तेरनन्तरमेव करणं सहकारिसमवधानानन्तरमेव वा। विलम्ब इत्यपि कोऽर्थः । किं यावन्न सहकारिसमवधानं तावदकरणं सर्वथैवाकरणमिति वा। तत्र प्रथमचतुर्थयोः प्रमाणाभावादनिश्चये ऽपि द्वितीयत्तीययोः प्रत्यक्षमेव प्रमाणम्। बौजजातीयस्य हि सहकारिसमवधानानन्तरमेव करणं करणमेवेति प्रत्यक्षसिद्धमेव। तथा सहकारिसमवधानरहितस्याकरणमित्यपि ॥
शङ्क० टौ । क्षेपाक्षेपयोरविवेचितयोरेकतरकोटिपरिग्रहोऽनुचित इति विवेक्त विकल्पयति । उत्पत्तेरनन्तरमेवेति ।
For Private and Personal Use Only