________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभडावादः ।
ग्वासिद्धिनिर्वाहे कथापूर्वरूपपर्यवसानात्। उत्तरपक्षावसरे तु सोऽपि न दुर्वचः ॥
शङ्क• टौ । क्षेपकारिखाभाव्ये सर्वदैवाकरणमित्यक्षेपकरणखाभाव्यमेव भावानामङ्गीकार्यम् तच्च स्वोत्पत्त्यव्यवहितोत्तरक्षण एव करणे सति स्यात् तथा च समर्थासमर्थबीजक्षणयोर्भद सिद्धौ सिद्धं क्षणिकत्वमित्या शयेन भावस्खाभाव्यं पृच्छति । स्यादेतदिति । न होति । परस्पर विरोधे हि न प्रकारान्तरस्थिति रिति यत इति भावः । अक्षेपकारित्वस्वाभाव्यं सामर्थ्यमालम्ब्य यदि समर्थं स्यात् कुर्यादिति प्रसङ्गस्वयावतारितस्तदत्र तत्स्वाभाव्यमन्देहादपि सन्दिग्धामिद्धिर्दूषणमुक्तम् एतावतैव परोक्कसाधने दूषणाभिधानस्य कथापूर्वरूपस्य पर्यवमानात् तव पराजय इत्याह । दूषणाभिधानेति । ननु जल्पे स्वपक्षसाधनमपि वमुचितमित्यत आह । उत्तरेति ॥
भगौ• टौ । नन्वर्थक्रियाकारित्वं सत्त्वं तच्च क्षेपकारित्वाक्षेपकारित्वाभ्यां व्याप्तम् तत्र यदि भावस्य क्षेपकारित्वं स्वभावस्तदा सहकारिसमवहितस्याप्यकरणप्रसङ्गः श्रयाक्षेपकारित्वं स्वभावस्तदा स्वोत्पत्त्यनन्तरमेव सहकार्यभावेऽपि कुर्यात् । न च बतौयः प्रकारः शङ्कितमपि शक्यते परस्पर विरहरूपत्वादिति स्थैर्य भावस्वभावानुपपत्तेः परिशेषात् चणिकत्वं मत्स्यतीत्यभिप्रेत्याह । एतावतापौति । महकारिविरहे क्षेपकारित्वं तत्साहित्ये चाक्षेपकारित्वं भावानां
For Private and Personal Use Only