________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
खोत्पत्त्यवहितोत्तरक्षण एवेत्यर्थः। प्रथमचतुर्थयोरिति। खोत्पत्त्यनन्तरमेव करणे प्रमाणाभावः सर्वथैवाकरणे कार्यजातं कदापि नोपलभ्येतेति बलवद्विपक्षदण्ड इत्यर्थः । प्रमाणभावादित्यापाततो विपरौतमेव प्रमाणमिति वस्तुगतिः । प्रत्यक्षमेवेति। अन्वयव्यतिरेकवलप्रवृत्तमित्यर्थः। अत्यन्तायोगव्यवच्छेदे चायमेवकारः । बौजत्वेनैव कारणतेति विवक्षनाह । बीजजातीयस्येति । ताप्येणैवान्वयव्यतिरेकप्रदर्शनप्रवृत्तेरिति भावः । अयोगान्ययोगव्यवछेदाभ्यामक्षेपकारित्वमेव द्रढयति । क्षेपकारित्वमाह । तथेति ॥
भगौ• टौ. । प्रत्यक्षमित्यनेन स्वपक्षे प्रमाणमुक्तम् । नन्वेकस्यां चणिकव्यको समवधामासमवधानयोरभावात् कथमेतत्प्रत्यक्षगोचर इत्यत आह । बौजजातीयस्येति । करणमिति । देण्यवाक्यस्थं स्वभावपदमनुषज्यते । तन्नातीयव्यक्तिषु जातिपुरस्कारात् प्रत्यक्षेण तवर इत्यर्थः ॥
रघ. टौ. । उत्पत्तेरनन्तरकरणमुत्पत्त्यनन्तरकालौनकार्यकारित्वम् उत्पत्तिकाले कारित्वमिति यावत् । एवमग्रे ऽपि नेयम्। प्रथमेति । कस्यचिदुत्पत्तेरनन्तरमेव किञ्चित्कार्यकारित्वे ऽपि न सर्वत्र तथात्वनियमः तस्य तदानौं महकारिमाकल्य निबन्धनत्वादिति भावः । चणिकत्ववादिभिरेकस्यां व्यकौ करणाकरणयोरनङ्गीकारा
(१) व्यवच्छेदाम्यामेवोपकारित-पा० २ पु ।
For Private and Personal Use Only