________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६२
मात्मतत्वविवेके सटीक
द्वितीयेऽपि पक्षलयमाह । तदत्तरेत्यादि। अत्रापि हतीये विकल्प पचदयमाह। अनुभवेति। चिरोत्पन्ना १) श्व नौसानुभवो नाहित.व्यापारचिरेण नौलस्मृति जनयतौति न सम्भवतीत्याह। तति २) । हेतुमाह। अनुत्पन्नेति। नौलादिविषयतां तिरस्कृत्य(२)बुद्भिधारा-- तिरिको बास्तोत्याह । नापोति । ननु नौलानभवप्रभवोऽनुभवसन्तान एव नौलस्मृतिं जनयेदित्यत आह । नापोति । नौलादिविषयतां तिरस्कृत्यानुभवप्रभवत्वमात्र(४) बौजत्ववत्प्रयोजक मिति मत्वा दूषयति एवं । चेति ॥
भगौ० टो० । इदानीमन्येनानुभूतम्घान्येन मारणादनुभविट स्मोरेकवसिद्धिरित्यन्यथा प्रतिसन्धानमुपपादायतमाह। अथवेति ! अनुभव एव व्यापारं विनाऽन्यदा स्मरणं जनयेदित्यर्थः । तदन्तरेति । अनुभवोत्तरबुद्धिरूप इत्यर्थः । तद्विशेषो वेति । तदत्तरबुद्धितदन्ययोर्विशेषो वेत्यर्थः । नापौति । अध्यक्षसिद्धपानभवोत्तरबुद्धिधारातिरिकः संस्कारोऽपि व्यापारो नास्ति अनुपलम्भबाधितत्वात्, सौगतैरनभ्युपगमाञ्चेत्यर्थः । नन्वध्यक्षसिद्धपूर्वानुभदोत्तरबुद्धिधाराविशेष एव पूर्वानुभवव्यापारः स्यात् म च विशेषोऽनुभवप्रभवत्वरूप एवेत्यत आह । नाप्यनुभवेति । स्मरणं प्रत्यनुभवप्रभवत्वमात्रस्यैव प्रयोजकत्वे प्रयोजकरूपाविशेषात् सर्वा बुद्धयः स्मरणं जनयेयुः ।
(१) अचिरोत्पन्न इति पाठः । (२) अत्रेति । इति पाठः । (३) नौलानुभवस्य व्यापारो दृश्य एव इति घ! । (४) नोलादिविषयस्मृतो अनुभव प्रभवत्वमामिति पाठः ।
For Private and Personal Use Only