________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
प्रालयविज्ञानयोस्तादृशप्रतिमन्धानाभावात्, प्रवृत्तिविज्ञानयोश्च कार्यकारणभावादेव तदपपत्तेरिति चेदालयविज्ञानभेदाग्रहः किमर्थम् । कर्भिदग्रहे एककलकत्वारोपासम्भवादिति चेत् त्यज तर्हि प्रवृत्तिविज्ञानानां कार्यकारणभावग्रहम् । एवमेतदालयविज्ञानानामेवोपादानोपादेयभावनियामक मौसादृश्यमभेदागेपोपयोगितयाऽऽश्रीयत इति चेत् लाघवादालयाभेद एव किमिति नाश्रीयते प्रतिमन्धानयाथार्थ्याय । स्थैर्यबाधकादिति चेत् । न । तम्य प्रागेव निरामात् । विधिखरूपं चानुगतं मादृश्यं विना स्थैर्यमसम्भवि । अतद्यावृत्तिरूपं च एकं तदर्थमन्तरेणा दुर्निरूपणम् । __ एतेन प्रवृत्तिविज्ञानसन्तानान्तःपातिनामहमास्पदानां भेदाग्रहादेककर्टकत्वप्रतिसन्धानमित्यपि परास्तम् ।
नापि द्वितीयः। तस्यापि भेदाग्रहः स्वरूपतो वा स्यात्, विषयतो वा। आद्ये पूर्वाहमिति प्रत्ययमाचादा प्रत्तिविज्ञानेभ्योऽपि वा। न प्रथमः। अहमित्यज्ञासिषमहमिति जानाम्यहमिति ज्ञास्यामौति चैकाल्याल्लेखस्य भेदनिश्चयमन्तरेणानुपपत्तेः। कथञ्चिदपपत्तौ तदर्थस्यैव प्रतिसन्धिरुचितो न प्रवृत्तिविज्ञानार्थानामपि न च तेभ्योपि भेदाग्रह इति चोक्तमेव। नापि विषयतः। स हि आकारो वा, वस्त्वन्तरं वा, अलौकं वेति । नाद्यो दूषितत्वात्। न द्वितीयः ।
For Private and Personal Use Only