________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८६
यात्मतत्त्वविवेके सटीके
नियामक इत्यर्थः । प्रवृत्तिविज्ञानोकदोषस्यालये समानत्वादपादानमेवेति पक्षोऽपि निरम्तः । पञ्चममुत्थाप्य निराकुरुते । तस्मादित्यादिना। अन्यत्-श्रालयप्रवृत्तिविज्ञानभिबं किञ्चिज्ज्ञानजातीयं, (ज्ञानस्य ) बाह्यानुपादानत्वात् । तथाच तदाकलितस्थालयेन प्रतिसन्धानं न भवेत्, न भवतु तो दोषान्तरमाह । अपूर्वेति । अनन्तानां प्रवृत्तिविज्ञानव्यक्तौनां प्रत्येकमेकैकमन्तानप्रवर्तनेऽनन्तमन्तानप्रसङ्ग इत्यर्थः ।
बत्तु प्रवृत्तिविज्ञानेनैकः मन्तान उपादेयस्तेनान्यस्तेन चान्य इत्यनवस्थेत्यर्थ इति । तदमत् । प्रवृत्तिविज्ञानोपात्ततदपात्तादौनामेकमन्तानान्तःपात्यपादानत्वेनैव निर्वाहे सन्तानान्तरकल्पकाभावात् ।
उनमथ मङ्गलाति । अशकौति । उपादानत्वाभावे निमित्तवस्थाप्यभावादर्थक्रियामामीविरहेऽसत्त्वं स्यादित्यर्थः। अन्यादानादन्योपादानात् । मिथ इति । श्रालयप्रवृत्तिविज्ञानयोः परस्परमनुपादानोपादेयभावे परस्परं परस्पराकलितार्थप्रतिसन्धानं न स्थादित्यर्थः । मङ्करे तयोः परस्परोपादानोपादेयभावे। अनेकमंश्रितिरेकस्थानेकोपादेयत्वम् ।
थालयप्रवृत्तिविज्ञानसन्तानयोः परस्परमनुपादानोपादेयभावे कीदृशं प्रतिमन्धानमनुपपन्न,(१) न तावत् परस्परानुभूतस्य परस्परं स्मरणं पालयस्यैवानुभविटत्वात् स्मर्तृत्वाच्च । नापि स्वप्रकाशतया । स्वस्थापि स्वविषयत्वात् । पूर्वापरविज्ञानयोरेककर्दकत्वनिश्चयः,
(१) तयोरित्यधिकं २ पु० पा० ।
For Private and Personal Use Only