SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ यात्मतत्त्वविवेके सटौके रिक्तस्यानुभवेऽपि प्रवृत्तिविज्ञानभित्रज्ञानत्वं नानुभूयत इत्यर्थात् । यद्वालयामिमतन्याभेदोल्लेखादसतिबाधके स्थिरत्वमिद्धावात्ममिद्धिरित्यत्र तात्पर्यात् । मदप्यालयविज्ञानं प्रवृत्तिविज्ञानोपादानं न वा, अन्ये परस्परेति । परस्परमानय विज्ञानप्रवृत्तिविज्ञानाभ्यां यत्प्रत्याकलितं विषयो कृतं तस्यानुसन्धान प्रतिमन्धान तस्य बन्ध उत्पत्तिः । यद्दा अनु पश्चात् मन्धानबन्धः सङ्घटनं पूर्वापरप्रत्ययानामेकविषयत्वग्रहः स न म्यादित्यर्थः। नन्वचेष्टापत्तिः। न हि द्वयोरपि प्रवृत्तिविज्ञानालयविज्ञानयोः प्रतिसन्धायकत्वमपि वालयविज्ञानम्य, तथाच विशिष्टव्यतिरेकरौत्याऽभिमतात्ममिद्धिरेव । मैवम् । प्रवृत्तिविज्ञानविषय प्रालय विज्ञानेन न प्रतिमन्धेय इत्यत्र तात्पर्यात् । तथात्वेऽपौति। उपादानोपादेयभावानापनयोरपि प्रतिसन्धान इत्यर्थः । श्राद्ये प्रवृत्तिविज्ञानमपि तद्पादानं न वा, श्राद्य उभयोरपौति । तददेवावयव्यादेरङ्गीकारेऽपमिद्धान्त इत्यर्थः । नन्विदमापादनं शब्दमाम्यमात्रात् । तथाोकं विज्ञानं यद्यनेक - जातीयकारणजन्यं स्यात् किमायातमनेकवृत्तेरवयव्यादेः न हि तस्याने कसजातीयजन्यता अनौकारनिदानं, किन्त कात्न्यै क देश विकल्पादिः । मैवम् । कार्यकारणभावम्यापि मम्बन्धविशेषतया तस्याऽप्यनेकवृत्तित्वविरोधापादनात् । यदा यदाश्रितं कायें जायते तदेवोपादानं पाश्रितत्वं च धर्मिविशेषः स्वरूपभेदो वेति नासाम्यम् । द्वितीयमाशय निराचष्टे । न चेति । श्रालयविज्ञान For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy