SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૭૬ Acharya Shri Kailassagarsuri Gyanmandir प्रात्मतत्त्वविवेके सटीके शक्तिविशेष इत्यनुषचनीयम् । विशेषाभावादिति । चार्यचद्धिमन्तानयोर्व्यावर्तक धर्माभावादित्यर्थः । शिष्या 0 भगौ० टौ । तद्योग्यतेति । तथा च प्रतिसन्धानयोग्यतालक्षण उपाधिरित्यर्थः । सैवेति । योग्यतावच्छेदकं रूपमेव नानुगतमित्यर्थः । स तावदिति । प्रतिक्षणनियतस्वरूपत्वेन व्यभिचारान कारणत्वग्रहः, या व्यक्तिर्ययतिजन्या ततस्तज्जातीया व्यक्तिस्तज्जातौयजन्येति व्याप्तेः । न चाकाशजन्यशब्दव्यक्त्या व्यभिचारः श्राकाशस्यैकत्वादिति वाच्यम् । श्रन्वयव्यतिरेकग्रा ह्मकार्यकारणभावे तथा नियमात् । तत्र च धर्मिग्राहकमानम्य तद्ग्राहकत्वादित्यर्थः । यद्येवं न स्यात्तकच पिकभावेऽन्वयव्यतिरेकग्रहाशक्यतथा कार्यकारणभावाग्रहात् क्वचिदपि प्रवृत्तिनिवृत्तों न स्यातामित्याह । अन्यथेति । तादृशत्वं नियतजातीयत्वम् । विशेषेति । कार्यकारणभावाभावेऽपि शिष्याचार्यबुद्धिव्यावृत्तानु गत नियामक रूपाभावादित्यर्थः । रघु० टौ० । शक्तौति । यद्यपि प्रतिसन्धानानुकूला शतिः प्रतिमन्धातयैव, न प्रतिसन्धेये, तस्य चिरातीतत्वेन तत्राप्रयोजकत्वात् तथाऽपि तस्य शक्तिविषयत्वं तथा चानुमन्धेयानुमन्धातृभाव एवोपादानोपादेयभाव इति भावः । तादृशा तज्जातीयेन कारणेन तत् तदजन्यं तत् तत्कार्यजातौयम् । तदजन्यं तज्जन्यजातीय कार्यमवश्यं तत्समानजाती यकारणजन्य मित्यर्थः । तथा चेति For Private and Personal Use Only 1
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy