________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६२
आत्मतत्त्वविवेके सटौके
काष्ठस्य तु (१)प्रकृतेर्वितिरङ्गार इति कुतो निश्चितं भवता, यावता वहेरेवाऽयं विकारः किं न स्यात् ! वह्निसम्बन्धिकाष्ठादेव तदत्यत्तेरिति चेन्न । काष्ठसम्बन्धेन वहेरेव तदत्यत्तिरित्यपि किं न कल्प्येत । पार्थिवं पार्थिवोपादानकमिति निश्चयादिति चेत् ! कुत एतत् । सभागेषु (२ स्वक्षणेषु तथादर्शनादिति चेत् ! एतदपि कुतः ! अभ्रान्तसमतैकावसायादिति चेत् ! अथ केयं समता नाम ! यदि साजात्यम् ! सादेश्यं वा ! तत् प्रानिरस्तम्। एकसन्तानत्वञ्चेत्तदपि तदत्पत्तिमात्रञ्चत् ! निमित्तनैमित्तिकयोरपि तथाभावप्रसङ्गः(३)। उपादानोपादेयभावश्चेत् ! कथं तेनैव तद्यवस्थाप्येत । ज्ञानेषु तत्प्रतिसन्धानमेवोपादानोपादेयलक्षणमिति चेन्न । आत्माश्रयप्रसङ्गात्।
शङ्क० टौ. । अत्राननुगमे मत्येव विमभागमन्ताने लक्षणस्य दुरवगमत्वमाह। काष्ठम्येति । पार्थिवमिति । सजातीयमेवोपादानकारणं तथा च काष्ठाङ्गारयोः माजात्यं, न तु वयङ्गारयोरित्यर्थः । कुत एतदिति । माजात्यं तत्त्वमिति कुत इत्यर्थः । सभागमताने तावदपादानोपादेयभावं प्रति माजात्यमेव तन्त्रमतो विमभागसन्तानेऽपि तदेव तन्त्रं कल्पनौयमित्यर्थः । एतदपौति ।
(१) चेति दौधितिसंमतः पाठः । (२) लक्षणेघ इति २ पु० पा० । (३) प्रसङ्गात् इति २ पु० पा० ।
For Private and Personal Use Only