________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५४
आत्मतत्त्वविवेके मौके
सन्धानमिति । म एवाहमिति प्रत्यभिज्ञानं ज्ञातुरभेदमाधकमिति भावः । तथ्यमिति । यथार्थं प्रत्यभिज्ञानमसिद्धमयथार्थ भेदपर्यवसायित्वेनाभेद विरुद्धं तन्मात्रं च ज्वालादावनैकान्तिकमित्यर्थः । कार्यकारणयोः पूर्वापरप्रत्यययोरित्यर्थः । सोऽपौति । तस्य भेद एवोपपत्तेरित्यर्थः । पूर्वति । योऽहं रूपमुपलब्धवान मोऽहं स्पशामौति पूर्वापरयोरेककर्टकतामाक्षात्कारोऽनेककर्डकायावृत्त एककर्टकत्वं साधयति । तथा ह्यन्तिमबुद्धिः पूर्वबुद्दयपादानोपादेया तावत्काले स्थायिकर्टका वा एककलकतया प्रत्यक्षविषयधीत्वादिति व्यतिरेकौत्यर्थः । ननु तथा प्रतिमन्धानव्यतिरेके कार्यकारणभावाभाव उपाधिरतः प्रतिमन्धाने कार्यकारणभाव: प्रयोजक इत्यन्वयेऽन्यथामिद्धिः, कर्टभेदेऽपि विलक्षणोत्पादभ्रमेणैव प्रतिमन्धानरूपोत्पादादित्याह । एषोऽपौति । म्यैर्यपने भामनं मियो नोपादानोपादेयभाव इत्याह । स्थैर्यति । ननु मजातोयकारणस्यैवोपादानत्वादुद्धोनां तथात्वे न विरोध दत्याह । क्षणिकत्वेऽपौति । यदि कार्यकारणभावः माक्षादिवचितस्तदा मामाद्यन्तरितबुद्धीनां प्रतिसन्धानं न स्यादिति परस्परया म वाच्यस्तबाह । शिय्येति । शिष्याचार्यबुद्ध्योरपि जानविवक्षाप्रयत्नस्यानाभिघातशब्दोत्पत्तिकमेण परम्परया कार्यकारणभावादित्यर्थः । एतच्चोपलक्षणम् । कार्यकारणभावेऽप्यनन्तव्यवहितविशेषणज्ञानजन्यविशिष्टबद्धौ प्रतिमन्दानाभाव इत्यपि मन्तव्यम् । यद्यप्युपाधेरतिप्रमकत्वेऽपि माध्यव्यापकत्वमक्षतमेव
For Private and Personal Use Only