________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
नियमच शिलायां न प्रथमः केवलबीजे तु न द्वितीय(१) इति भावः । मुख्यसमर्थव्यवहारगोचरत्वमुपसंहरति । ततश्चेति । कदाचिज्जननमेव शिलाशकलादिविलक्षण मुख्यममर्थव्यवहारगोचरत्वे मूलम् । तथा च यदि समर्थव्यवहारगोचरः स्यात् तदा कुर्यादिति न व्याप्तिरस्तौत्यतः प्रसङ्ग मूलगैथिल्यमित्यर्थः । यदा मत्त्ववएिकत्वयोरेतावता न व्याप्तिसिद्धिरित्यर्थः ॥
भगौ० टी० । प्रागुक्तापाद्यावैशिध्यपरिहाराय समर्थव्यवहारगोचरत्वमापादकमाशय निराकरोति । एतेनेति । हेतुरापादकः सामर्थ्य व्यवहारे यदि विशेषणं तदाशत श्रापाद्यावैशिध्यमेव दूषणमित्यर्थः । अथ तत् तत्रोपलक्षणं तबाह । तादृशेति । तत्रेति । अङ्करानुपहिते बोजे । ननु मुख्यः स कथं न तत्रेत्यत आह । तस्येति। अन्यथेति। तस्य जननानिमित्तत्वे शिलाशकले ऽप्यजनयति मुख्यममर्थव्यवहारप्रसङ्गादित्यर्थः । तस्य जनननिमित्तकत्वे ऽपि कदाचिज्जननादजनयत्यपि समर्थव्यवहारो मुख्य एव जननयोग्यतायास्तत्र सत्त्वादित्याह । कौशामिति । अपेक्षणीयव्याप्यव्यवहितोतरक्षणे जननमक्षेपकारित्वम् तद्यदि मामग्रीमध्यप्रविष्टं बौजमधिकृत्यापादनं तदेष्टापत्तिः अतादृशे चापादकाभावः । तथा चोत्पत्त्यव्यवहितोत्तरक्षण एव जनकत्वमक्षेपकारित्वं वायं तत्राह। तस्येति। ननु कार्यानुपधानाविशेषाच्छिलायामपि समर्थव्यवहारः स्यादित्यत पाह। नियमस्य चेति। समर्थव्यवहारविषयतायां कादाचित्कत्वस्या
(१) न तु द्वितीय-पा० २ पु० ।
For Private and Personal Use Only