________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः
अन्यथा त्वनियमप्रसङ्गादिति चेत् कीदृशं पुनर्जननं मुख्यसमर्थव्यवहारनिमित्तं न तावदशेपकरणं तस्यासिद्धेः नियमस्य च सहकारिसाकल्ये सत्येव करणं करणमेवेत्येवं स्वभावत्वेना प्यपपत्तेः ततश्च जनननिमित्तर) एवायं व्यवहारो न व्याप्तिसिद्धिरिति ॥
शङ्क० टी० । ननु कुशूलस्थं यदि समर्थव्यवहारगोचरः स्यात् तदा कुर्यान्न च करोति तम्मान समर्थव्यवहारगोचर इति प्रमङ्गविपर्ययौ स्थानामित्यत आह । एतेनेति । प्रापि प्रमों मूलशैथिल्यं विपर्यये च बाध इत्याह । तादृगिति । ननु मुख्यसमर्थव्यवहारजनकत्व निबन्धनौ प्रमङ्गविपर्ययाविति नोक्तदोष इति शङ्कते । नासाविति । अन्यथेति । यदि यथा कथञ्चित् समर्थव्यवहारनिबन्धनमेव करणं स्यात् तदा भ्रान्ततादृशव्यवहारगोचरशिला प्रकलादेरप्यङ्करः स्थादित्यर्थः । यदा कुशूलस्थस्यापि मुख्यसमर्थव्यवहारगोचरत्वे ततोऽप्यङ्करः स्थादित्यनियमप्रसङ्ग इत्यर्थः । मुख्यव्यवहारं प्रति निमित्तं विकल्य दूषयति । न तावदिति । अनियमप्रमङ्गं परिहरति(२) । नियमस्य चेति । कुशूलस्थस्य मुख्यसमर्थव्यवहारगोचरत्वे ऽप्यङ्कराजननं सहकारिवैधुर्यप्रयुक्रमिति नानियम इत्यर्थः। एवं वीजं जनयत्येवेत्यत्यन्तायोगव्यवच्छेदो नियमः महकारिसमवहितमेव जनयति जनयत्येवेत्यन्ययोगात्यन्तायोगाभ्यां
(१) स्वभावत्वे-पा० १ पु.। (२) जनननिबन्धन-पा० १ पु.।
(३) दूषयति-पा० ३ पु.।
For Private and Personal Use Only