________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेक सटौके
न विरुद्धे इत्यर्थः । यदभाव एवेत्येवकारेण स्वभावप्रयोज्यत्वमकरणस्य निषिद्धम् । ननु सहकारिसमवधानासमवधाने एकस्या व्यक्तौ परस्परविरुद्धे तब्जातीयस्य तु ते चणिकत्वे ऽप्युपपद्यते । न तज्जातीयस्य करणाकरणे सहकारिलाभालाभप्रयुक्त इत्यभ्युपगमे क्षणिकत्वामिद्धेः तदा तादृग्वेति न्यायादेकत्रापि तदुपपत्तेरिति भावः । बीजं प्रत्यभिज्ञानम् तस्य सर्वस्वमुपपादकत्वात् ॥
रघु० टौ. । नापौत्यादि । यद्यदा सहकारिविरहप्रयुकयत्कार्याभाववत् तत् तदा तत्कार्य करोत्येवं वा प्रसङ्गः किं वा यदा तदेति परित्यज्य । नाद्यः विरोधात्। द्वितीये ऽपि किमापाद्यापादकयोर्योगपद्येन सामानाधिकरण्यस्य यहः कालभेदेन वा। नाद्यः विरोधेन तथा ग्रहासम्भवात् । द्वितीये तु एकस्यैव धर्मिणः पूर्वापरकालावस्यायित्वलक्षणं स्यैर्यमवगाहमाना मामानाधिकरण्यबुद्धिरेव चणिकत्वं विरुणद्धौत्यर्थः । यदित्यादावेवकारौ भिवक्रमेण यदेव तदेवेति । यदभावे यस्य सहकारिसाकल्यस्याभाव इत्यन्ये । तौ च नियतान्वयव्यतिरेकाभ्यां कार्यकरणाकरणयोः सहकारिसमवधानासमवधानप्रयुकत्वस्य प्रदर्शनाय ॥
एतेन समर्थव्यवहारगोचरत्वं हेतुरिति निरस्तम् । तादृगव्यवहारगोचरस्यापि बीजस्याङ्कुराकरणदर्शनात् नासौ मुख्यस्तद्यवहारः) तस्य जनननिमित्तकत्वात्
(१) तत्र व्यवहारः-पा० १ पु ।
For Private and Personal Use Only