________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभणवादः ।
स्थापि करणप्रयोजकसहकारिसाहित्यविरहेणाकरणोपपत्तेर्मूलशैथिस्यात् । ते बोजादयः ॥
नापि तृतीयः विरोधात्। सहकार्यभावप्रयुक्तकार्याभाववाँश्च सहकारिविरहे कार्यवाँश्चेति व्याहतम् । तस्माद् यद् यदभावे एव यन्न करोति तत् तत्सद्भावे तत् करोत्येव इति तु स्यात् । एतच्च स्थैर्यसिद्धेरेव परं बीजं सर्वस्वमिति ॥
शङ्क० टी० । ननु कुशूलस्थं बीजं यदि सहकारिविरहप्रयुक्तकार्याभाववत् स्थात् कुर्यात् न च करोति तस्मान्न तथेति प्रसङ्गविपर्ययौ स्यातामित्यत आह । नापीति । कुशूलस्थस्य सहकारिवैधुर्यमुभयसिद्धम् तथा च महकारिविधुरं बीजं यदि सहकारिविरहप्रयुक्तकार्याभाववत् स्यात् तदा कुर्यादिति विरुद्धमित्याह । विरोधादिति । तस्मात् यत् सहकारिविरहान्न करोति तदेव महकारिसत्त्वे करोतीत्यायातम् तच्च स्थैर्य सिद्धावेव स्थादित्याह । तस्मादिति ॥
भगौ० टौ । सहकार्यभावप्रयुक्तकार्याभाववत्त्वेन सहकार्यभावकाले कार्यकारित्वापादानं व्याघातानास्तीत्याह । विरोधादिति । नन्वेकत्र करणाकरणे न सम्भवतो विरोधादित्यत आह । यद्यदिति । यत्कारणं यस्य महकारिममवधानस्थाभावे यत्कार्य न अनयति तत् तत्समवधान एव जनयतीत्यौपाधिके करणाकर
For Private and Personal Use Only