________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
एव तादृशखभाव इति क्षणभङ्गः मिद्ध इति भावः । विलम्बकारिखभावत्वमुपजीव्य सर्वापादने विरोध इत्याह । विलम्बेति । न हि विलम्बकारित्वमकारित्वं तथा च दैवात् करणे विलम्बकारित्वव्याघात इत्यर्थः । ननु विलम्बकारिस्वभावस्य कथमविलम्बन कारित्वमिति समाधान एव विलम्ब्य करोतौति व्यवहारे निमित्तमाह । ततश्चेति । तथा चार्थात् सहकारिम निधावपि न विलम्बत इत्यर्थः । ततश्च कार्यजन्म न तत्र मानमित्याह । एवं चेति । ननु सामय्यपि तादृशस्वभावानां मेलकमेवेत्यत आह । ते लिति । ते सहकारिणः । यथानुभवमिति स्वपक्षे प्रमाणमुक्तम् । विलम्बकारिणोऽपि सहकारिलाभादेव कार्यजन्मान्यथा सिद्धमिति न तत्र मानमित्यर्थः। यथा वा त्वत्परिकल्पनमित्यस्य व्याख्यानं क्षिप्रकारिखभावा इति । न च करणारम्भबीजमकरणारम्भबीजावृत्तिजातिमदराक्षेपकारित्वात् चित्यादिवदिति वाच्यम् अबोजत्वस्योपाधित्वात् विपक्षबाधकाभावाच्चेति भावः ॥
रघु० टी० । अस्मिन्नर्थे ऽक्षेपकारित्वे अक्षेपविलम्बयोरन्यस्य प्रकारस्थासम्भवा दिलम्बबाधे परिशेषादक्षेपमिद्धिरिति भावः। विलम्बो ह्यत्राकरणं तच्च सर्वदैव कदाचिदा। श्राद्ये विलम्बकारित्वाप्रसिद्धिः । द्वितीये तु कार्योत्पत्तेरविरोधात्र परिशेषावतारः । तथा चाक्षेपकरणस्वभावस्या सिद्धौ न तबियामकत्वेन कुर्वट्रपत्वमिद्धिरित्याह । न विलम्बेत्यादिना । एतेनाविवक्षितविशेषं सामान्यतो जनकतावच्छेदकरूपवत्त्वमेव मामर्थ्यमभिहितमिति परास्तम् । स्वरूपयोग्य
For Private and Personal Use Only