________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५२
आत्मतत्त्वविवेके सटीके
काराकारिणोरभेदात् अस्माकं तु विषयविशिष्टस्यैव व्यवसायस्यानुव्यवमाये भासनात् । हतौयं शकते। प्रवृत्तौति । प्रतिपत्ता प्रतिपत्तेरुपादानम् । अस्वित्यादि । उपादानं परेषां मजातीयं कारणमस्माकं ममवायि । अनादिनिधनः समानकालौनानेकावृत्तिमर्वकालसम्बन्धितावच्छेदकरूपवान् । तच्च रूपं परेषां तत्मतानत्वम्, अस्माकं तु तत्तदात्मत्वम् । प्रतिपत्ता अहमास्पदं प्रतिपत्त्याश्रयो वा । प्रागेव क्षणभङ्गभङ्गेन ॥
कः पुनरत्र न्यायः। प्रतिसन्धानम् । तथ्यमिदमित्यसिद्धमतथ्यञ्च विरुद्धम् अविशिष्टमनैकान्तिकमिति चेन्न । हेत्वर्थानवबोधात् । नहि प्रत्यभिज्ञानमात्रमत्र विवक्षितम् । तत् किं कार्यकारणयोरेकसन्तानप्रतिनियमः । सोऽपि विरुद्ध इति चेत् ! एषोऽपि न विवक्षितो नः । कस्तहि! पूर्वापरधियामेककर्तृतया विनिश्चयः । एषोऽपि तासामुपादानोपादेयभावेनाऽप्युपपद्यत इति चेन्न । स्थैर्यस्थितौ तदभावात् । क्षणिकत्वेऽपि नैकजातीयत्वे सति तदत्पत्तिरेवोपादानोपादेयभावः। शिष्याचार्यधियामपि तथाभावप्रसङ्गात् ।
शङ्क० टी० । अत्रेति । स्थिरात्मनौत्यर्थः । न्यायरुचिम्प्रत्यत्तरमाह । प्रतिसन्धानमिति । वस्तुतः प्रत्यक्षमेव प्रतिसन्धानं स्वर्य प्रमाणां, कथायान्तु प्रत्यक्षमप्यनुमानच्छाययैव प्रयोक्रव्यम्,
For Private and Personal Use Only