________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
प्रसङ्गात्, आकारमन्तरेणाकारिणोऽनवभासात् । प्रवृत्तिसन्तानान्यो बुद्धिसन्तानः प्रतिपत्ता, वयं तमालयविज्ञानमाचक्ष्मह इति चेत्, अस्तु तर्हि प्रवृत्तिविज्ञानोपादानमनादिनिधनः प्रतिपत्ता। स किं सन्तन्यमानज्ञानरूपस्तविपरीतो वेति चिन्ताऽवशिष्यते, निःशेषिता चासौ प्रागिति।
शङ्क० टौ. । बुद्धिस्तत्रोपाधिरित्याह । बुद्धाविति । अहवाधिकरणे क्रियात्वेन भासमाना बुद्धि हङ्कारास्पदं भवितुमहतोत्याह । तस्या इति । ननु यथा नौलादिबुद्धौ नौलादिराकारस्तथा प्रतिपत्तेराकारोऽहन्त्वं प्रतिपत्तौ भासत इति शङ्कते। नौलादौति । एवं यथा नौलादिः प्रतौतिभिन्नस्तथा प्रतिपत्तापि प्रतिपत्तिभिन्न एव तस्याकारस्तच भामत इति सिद्धं नः ममोहितमित्याह । तौति । नन्वहमाकारायाः प्रतिपत्तेर्या प्रतिपत्तिरूपादानभूता मैवाहन्त्वेन भामत इत्याह । अस्विति । स्वोपादानमात्रमहं प्रत्ययविषय इति शेषः । खोपादानं हि नौलादिविज्ञानं यदि तदा तदुल्लिखविज्ञानं नौलाद्ययलिखेत्, तथा च काहं प्रत्यय इत्याह । तत्प्रतिभामन इति । प्राकारेति । प्रवृत्तिविज्ञानाकारो नौलादिस्तमन्तरेणाकारिण उपादानस्य नौलादिविज्ञानस्थानवभासनादित्यर्थः । प्रालयविज्ञानमुपादानपदेनोच्यते तस्य चाहत्वमात्रमाकार दूति न नौलादिभानप्रसङ्ग इत्याह । प्रवृत्तीति । अनादिनिधन इति । सन्तानाभिप्रायम् । प्रागेवेति । क्षणभङ्गप्रकरण एवेत्यर्थः ॥
For Private and Personal Use Only