________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७४७
शङ्क० टी० । ननु यद्यात्मास्ति तदा नौतादिवद्दहिरिन्द्रियवेद्यं स्यादित्यत श्राह। न चेति । ननु बुद्धिः स्वयमेव खम्मिन प्रमाणां न त्वात्मा तथा, तस्य जडत्वादित्यत आह । तत्रेति । मानम मिति । वेदनमित्यनुषज्यते । तथा च मानसप्रत्यक्षमिद्ध एवात्मेत्यर्थः ॥
भगौ• टौ• । ननु प्रत्यक्षस्य बहिःकरणजन्यत्वदर्शनाचाच च तदभावान्न प्रत्यक्षत्वमिति वामनाप्रभवत्वमेव स्थादित्यत आह । न चेति । यथाऽन्यम्य स्वप्रकाश्यकत्वेपि बुद्धिस्त्वन्मते स्वप्रकाशा यथानुव्यवमायोऽन्तःकरणजन्यस्तथाऽऽत्मप्रत्यक्षमपौत्यर्थः ॥
रघु • टौ । बा बहिरिन्द्रियजं प्रत्यक्षं निर्विकल्पकम् । निर्मलत्वम् मूलभूतवस्तुशून्यत्वम् । बुद्धौति । उपलक्षणं चेदम् । सुखादिविकल्पानामपि मानमप्रत्यक्षमूलकानामवस्तुकत्वप्रमङ्गो द्रष्टव्यः । माधितं च सुखादौनां ज्ञानातिरिकत्वमाकरे ॥
शरीरादिवस्तुको भविष्यतीति चेन्न, निरुपाधिशरोरेन्द्रियबुद्धितत्समुदायालम्बनत्वेऽतिप्रसङ्गात्। स्वसम्बन्धिशरोरादावयं स्यादिति वाच्यम्, तत्र कः स्वार्थ इति वचनौयम्। अनन्यत्वं स्वत्वं सर्वभावानाम्, तथा च यदा तेनैव तदनुभूयते तदा प्रत्येतुः प्रत्येतव्यादव्यतिरेकादहमिति स्यात् । अत एव
For Private and Personal Use Only