SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। ७४३ नापि प्रमेयत्वव्यापकार्थक्रियाविरहेण तदभावमाधनम्, त्वया केवलव्यतिरेकिणो मानत्वानभ्युपगमात्, व्याप्तेः पक्षधर्मतायाश्चासिद्धेः। अस्य च ज्ञानस्य प्रामाण्य व्याघातोऽप्रामाण्य तु कुतोऽभिमत मिद्धिरित्यादि स्वयमूहनौयम् ॥ " - अथात्मसद्भावे किं प्रमाणम् । प्रत्यक्षमेव तावत्, अहमिति विकल्पस्य प्राणभृन्मात्रसिद्धत्वात् । न चायमवस्तुकः सन्दिग्धवस्तुको वा, अशान्दत्वादप्रतिक्षेपाच्च । न च लैङ्गिकः, अननुसंहितलिङ्गस्यापि स्वप्रत्ययात्। न च स्मृतिरियम्, अननुभूते तदनुपपत्तेः। अनादिवासनावशादनादिरयमवस्तुको विकल्प इत्यपि न युक्तम्, नौलादिविकल्पसाधारण्यात् । इह वासनामुपादायानाश्वासे प्रमाणान्तरेपि कः समाश्वासो यतो नौलादिविकल्पेषु समाश्वासः स्यात् । शङ्क. टी. । ननु माधकबाधकमानाभावादात्मनि मन्देहः स्यादतः माधकमाह । प्रत्यक्षमिति । आगमानुमानयोरपि श्रात्मनि मत्त्वे प्रत्यक्षस्योपजीव्यत्वात्तदेव प्रथममुक्रम् । ननु शशविषाणप्रत्ययवदहमिति प्रत्ययः स्यादित्यत आह । न चेति । बौद्धैः शब्दादिविकल्पानामवस्तुकत्वाभ्युपगमादाह। अशाब्दत्वादिति । मन्दिग्धवस्तुकतायामाह । अप्रतिक्षेपादिति । नायं स्थाणरितिववाहमिति प्रतिक्षेपाभावादित्यर्थः । न च लैङ्गिक For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy