SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३७ आत्मतत्त्वविवेके सटौके नागौक्रियते, अङ्गीकारे वा म एव पारमार्थिको विषय इत्यर्थः । तावन्मात्रमुल्लेखमात्रम् । न चेति । देशो भूतलादिस्तत्र पारमार्थिको विषयो न तु प्रतिनियमविषयो वृक्षादिरित्यर्थः । देशदेशिनोधर्मधर्मिभावादभेदे यथा दूरत्वाद्देशस्य विशेषा नोपलभ्यन्ते तथा वृक्षादेरपौति विशेषो नास्तीत्याह । अविशेषादिति । ननु धर्मधर्मिणोरभेदो धर्मिग्रहणं निर्विकल्पकरूपं सर्वधर्मविषयमेव, मविकल्पकं तु बहन्यव्यावृत्तिविषयतया पट्सपटुग्रहणरूपमित्याशङ्कां निराकरोति । न चेति । स्फरणं निर्विकल्पकम् । निथयः मविकल्पकः । निर्विकल्पकस्य मविकल्पकोन्नेयत्वात्तदभावे तत्मत्त्वमशक्यनिश्चयमित्यर्थः ॥ रघु० टी० । कारणीभूतस्य निर्विकल्पकम्य प्रतिनियतविषयकत्वात् कार्यभूतस्य सविकल्पकस्यापि तथात्वं न पुनरनादिवामनासमुत्थानां शशविषाणादिविकल्पानामित्याद्याशय निराकरोति । न चेति । स्वममानाकारग्रहणजनकत्वं विषयस्याऽऽधिपत्यम् ग्रहणस्य च स्वसमानाकारविषयव्यवस्थापकत्वम्, अनुभवस्य कादाचित्कनौलाद्याकारान्यथानुपपत्त्या नौलाद्याकारविषयमिद्धेः, तथा च तथा विधस्य तथाविधो वा प्रत्ययोऽधिपतिप्रत्ययः । नियतविषयं निर्विकल्पकम्, तत्त्वात् तदधौनत्वात् मविकल्पकस्य विषयनियमोपपत्तेः । अधिपतिर्निर्विकल्पकं प्रत्ययः कारणां यस्य तत्वादित्यपि कश्चित् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy