________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभगवादः।
७३५
नियताकारमविकल्पकजननसामर्थ्य निर्विकल्पकस्याधिपत्यम्, तथा च तस्य सविकल्पकजनकनिर्विकल्पकस्य तथात्वात् मविकल्पके विषयप्रतिनियम इत्यर्थः इत्यन्ये । __ यदि निर्विकल्पक वृक्षादिदेशमुल्लिखेत् तदा तदनुरुन्यानो विकल्पोपि वृक्षादिविषयकः स्यात् । न च भवतामपि (असतो) वृक्षादेरवयविनो निर्विकल्पकविषयत्वस्य सम्भवोऽन्यविषयकाच्च निर्विकल्पकादन्यविषयकविकल्पोत्पादे नौलनिर्विकल्पकात् पौतमविकल्पकोत्पादप्रमङ्ग इत्यक्षरतात्पर्याभ्यामाह। पनुभवाना मिति। पालम्बते विषयतामात्रेणाश्रयते असन्तमर्थमित्यालम्बनप्रत्ययः सविकल्पकं विज्ञानम्, तथा च तस्यैव कुतो विषयनियमः। तावन्मात्रं श्रमदग्लेिखमात्रम्। श्राकरे कचिदिषयौभूतायां प्रतौतावालम्बनप्रत्ययव्यवहारः। देशो भूतलादिः। पालम्बनं विषयः। अनुपलब्धेति। पट्वपटुप्रत्ययस्य देशिवद्देशस्यापि विशेषानुपलब्या दवीयमोऽपटुर्नेदौयमश्च तदुपलब्ध्या पटुर्नान्यथेत्यर्थः । स्फुरन्ति निर्विकल्पकेन ग्राह्यन्ते । न तु निश्चीयन्ते न तु मविकल्पकेन विषयौ क्रियन्ते ॥
अनिश्चयानुपपत्तेश्च । अनुभूतो ह्यात्मा न निश्चीयत इत्यत्र हेतुर्वाच्यः । वासनानुद्भव इति चेन्न । निःशेषविशेषवन्तं धर्मिणमुपलभ्य विदूरवर्त्तिनस्तदखिलस्मरणेपि अनुभवव्यापारानुसारिनिश्चयानुदयात्।
For Private and Personal Use Only