________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३२
आत्मतत्त्वविवेके सटीक
एक एव चार्थो नेदौयांसं पुरुषं प्रति पटुत्वेनोत्पद्यत इति तेन पटुत्वेन ग्राह्यते, दवौयांमं प्रति चापटुत्वेनेति तेनापट्त्वेनेत्याशङ्कय निराकरोति। न चेति। द्वैरूप्यं विरुद्धोभयरूप(व)त्व(व)म्। धर्मधर्मिणोरभेदे धर्मिग्राहिणाप्येकेन पटत्वमेवान्येन चापट त्वमेव गृह्यत इत्येवामम्बद्धमित्यपि द्रष्टव्यम् । अन्यान्य इति । एकः पटुरपटुश्चान्य इत्यर्थः । तत्त्वेन अभिनत्वेन । मा एकदेशता । भान्ता भ्रमविषयः । एवं तन्वमपि भ्रान्तमिति द्रष्टव्यम् । तथाभूतस्य पदपटरूपस्य। निरालम्बनः मदनालम्बनः। तदुपलम्भः पटुत्वापट त्वोपलम्भः । देशप्रतिनियमः प्रतिनियतदेशविषयत्वम् । अयं हि पट्वादिप्रत्ययो नियते हजादौ, निरालम्बनस्तु शाशविषाणादिप्रत्ययो न तथेति ॥
न चाधिपतिप्रत्ययत्वात्तस्येति युक्तम्, अनुभवानां तद्देशोल्लेखाननुरोधात्, उल्लेखे वा स एवालम्बनप्रत्ययः, तावन्मात्रानुबन्धित्वादवलम्बनव्यवहारस्य । न च देशोऽस्त्वालम्बनं न तु वृक्षादिरिति साम्प्रतम्, अनुपलब्धविशेषतया देशदेशिनोरविशेषात् । न च दवीयांसोपि विशेषाः स्फुरन्त्येव, न तु निश्चीयन्त इति युक्तम्, न हि योगविमलाञ्जनधौतदृष्टरन्यस्य ताराव्यूहगतयः प्रतिभान्तौति शक्यं प्रतिपादयितुम् ।
शङ्क० टौ । ननु वृक्षादिदेशप्रतिनियतोऽप्युपलम्भः स्पष्टास्पष्टरूपोऽनादिवासनाप्रभव एवेत्यत आह । न चाधिपतौति ।
For Private and Personal Use Only