SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणगुणिभेदभगवादः । ७३१ न चेति । य एव दूरादृष्टः म एवायं वृक्ष इति निकटस्थेन प्रत्यभिज्ञानादित्यर्थः । न च सेति । मा एकदेशता भ्रान्ता भ्रमविषय इत्यर्थः । प्रत्यामौदतोपि पुरुषस्य तत्र बाधानवताराब भ्रान्ते त्याह । भिन्न देशस्येति । ननु तैमिरिककेशोपलम्भवबिरालम्बन एव पवपटुग्रह इत्यत प्राह । न चेति । एवं मति वृक्षादिम्तद्विषयतया नोलिख्यतेत्यर्थः ॥ भगौ• टौ. । किञ्च धर्मिणो यावद्धम्य तदा कथं धर्मज्ञाने मतोव कस्यचिद्धर्मस्याग्रहः कस्यचिद्धर्मस्य ग्रह इत्याह । प्रभेदे चेति । बहुतरधर्मग्राहकत्वं पटुत्वम्, अल्पतरतद्वाहकत्वमपटुत्वम् । पट्सपटज्ञानभेदात् पुरुषभेदः । तथैवेति । पटुजानपुरुषापेक्षया पटुरपटुजानपुरुषापेक्षया त्वपटुरर्थ एवोपेयत इत्यर्थः । द्वैरूप्यं मिथोविरुद्धधर्मद्वयम् । ननु पटत्वादपटुरर्थोऽन्य एवेति न दोष दत्याशय निराकरोति । न चान्येति । तत्त्वेनाभेदेनेत्यर्थः । मा एकदेशता । तथाभूतस्यैकदेशत्वेन प्रत्यभिज्ञायमानस्येत्यर्थः । निरालम्बनः पारमार्थिकाविषयः । प्रतिनियमः प्रवृत्तिनियमः प्रतीतिनियमो वा ॥ __रघु• टौ. । यत्र जात्यादेरसम्भवस्तत्र दूषणान्तरमाह । अभेदे चेनि। दूरत्वेनापटुग्रहणमदूरत्वेन च पटुग्रहणम्। बहुतरधर्मग्राहित्वं पटुत्वमल्पधर्मयाहित्वं चापटुत्वम् । धर्मिग्रहे च तदभिन्नानां सर्वेषामेव ग्रहात्तथात्वासम्भव इत्यर्थः । अथ पटुत्वमपटुत्वं च विषयधर्मस्ताहितया च ग्रहणे पटुत्वापटुत्वव्यवहारः, For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy