________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः ।
I
रघु० टौ । शङ्कते । श्रभेदसाधनं गुणगुणिनोर्भेदे बाधकमिति । यद्यपि रूपाग्रहे त्वचा शङ्खग्रहान्न महोपलम्भनियमो न चासावन्य एव स्पर्शात्मकः शङ्ख दर्शनस्पर्शनाभ्यामेकार्थानुमन्धानस्य प्रतिपादितत्वात् निराकृतं च रूपत्वस्पर्शत्वयोरैकाधिकरण्यम्, तदग्रहे गृह्यमाणत्वस्य च विना भेदमनुपपत्तेः, मामग्रौसाजात्येनापाद्यमानो नायनोपलम्भनियमोऽकिञ्चित्कर एव, तथापि दोषाउन्तरमाह (१) । समेति । परस्पराविषयकप्रतीत्यविषयत्वस्येत्यर्थः । पीतेत्यादि । न च तत्र शङ्खस्य रूपं ग्टह्यत एव शुक्लत्वं तु तत्र न ग्टह्यते दोषात्, तत्र च पौतवमारोप्य तादृशवैशिष्ट्यं शङ्ख गृह्यते, जातिव्यक्त्योर्भेदसिद्धिस्तु न गुणगुणिनोरभेदसिद्धौ बाधिकेति वाच्यम् । तादृशकल्पनायां मानाभावात् श्राहत्यैव शङ्खे पौतिमारोपसम्भवात् । न च तदीये रूपे गृह्यमाण एव चक्षुषा द्रव्यग्रहः, मानाभावात्, शुक्लत्वादौ गृह्यमाण एव शुक्लादिरूपग्रह इत्यस्यापि सुवचत्वात् मन्दिग्धामिद्धेर्दुर्वारत्वाच्च । न च रूपाग्रहे नियमेनागृह्यमाणत्वेन रूपाभेदः साध्यः, रूपत्वे व्यभिचारात् । अतिरिक्तरूपत्वानभ्यपगमे तत्ताय हेऽग्टह्यमाणत्वस्य स्वरूपासिद्धत्वात् ॥
७२३
नासौ शङ्खः, किन्तु शङ्ख इव, तैमिरिककेशवदिति चेत्, अहो गुणवद्विद्वेषः, यत् तैमिरिककेशाः करतलपरामर्शप्रतिनियतार्थक्रिययोरपायान्न सम्भवन्तौति
(१) तथाऽपि सोपि नास्तीत्याह । इति १ पु० पा० ।
For Private and Personal Use Only