________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२२
आत्मतत्त्वविवेके सटीके
अभेदसाधनं बाधकमिति चेत्, किं तत् । सहोपलम्भनियम इति चेन्न । समसहोपलम्भनियमस्यासिद्धेः, पौतशतोपलम्भादौ श्वैत्यानुपलम्मेपि शङ्खोपलम्भात्।
शाङ्क० टौ । गुणौ गुणाभिन्नः महोपलम्भनियमादिति बाधकं शङ्कते। अभेदेति। मममहोपलम्भस्येति। परस्पराविषयकप्रतीत्यविषयत्वस्येति । व्यभिचारमाह। पौतेति। श्वेत्याविषयकप्रतीत्यविषयत्वस्य शङ्खऽसिद्धेरित्यर्थः ।
भगौ० टौ.। महेति । परस्पराविषयकप्रतीत्यविषयत्वात् गणगणिनोरभेदः माध्य इत्यर्थः। ममेति । तथात्वे वा श्वैत्यशवयोरभेदो न स्यादित्यर्थः । श्वेत्यानुपलम्भ इति । ननु रूपाविषयप्रतीत्यविषयत्वादिति हेतुः कृतः, न चास्याऽसिद्धिः, न हि तदीयरूपविशेषायहे मत्यग्रहो हेतुः, किन्तु यत्किञ्चिद्रूपाग्रहे, स च सिद्ध एव । किञ्च शङ्खरूपवृत्तिरूपत्वव्याप्यजातिस्तत्र न गृह्यते, न त रूपमपि, तथा चोपक्रान्तो गुणगुणिनोरभेदः सिद्ध एव ।
अत्राहुः । असिद्धिपदेन नात्र स्वरूपामिद्धिरभिमता, किन्तु मन्दिग्धसिद्धिः, हेतोरन्यथोपपत्तेः । यदा पौतः शङ्ख इत्यत्र शङ्ख पौतगुणवत्ता जाप्यते, दोषवशाच्छङ्खरूपं न भामत एव, पौतगणारोपेणैवोपपत्तौ भ्रमान्तरकल्पनायां मानाभावात्, कदाचिदेवंविधोपि भ्रमः सम्भवतीति तत्परोऽयं ग्रन्थः ॥
For Private and Personal Use Only