________________
Shri Mahavir Jain Aradhana Kendra
७२०
www.kobatirth.org
प्रात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
ते
प्राप्तेरर्थक्रियास्थितेश्च न द्वितीयोपि । रूपादीनामिति चेत्, न तेषाम्, किन्तु तस्यैवेति किं न स्यात् । बाधकादिति चेत्, न तावत्क्रमयौगपद्यविरोधा रक्तारक्तविरोधो वा बाधकं, निषिद्धत्वात्, क्षणिकपरमाणुरूपद्रव्येणाक्रान्तेश्च । सम्बन्धाभाव इति चेत्, असम्बन्धस्तावदस्तु । कथं तद्वत् प्रतीयत इति चेत्, तेषां तथोत्पादादिति परिहारोऽस्तु तवैव यथा शरीरं चेतनावदिति । रूपादिभिरेव समस्तार्थक्रियासिद्धेः किं तदतिरिक्तद्रव्यकल्पनयेति चेन्न । तावन्मात्रेणैव समस्तार्थक्रियासिद्धेः किं रूपादिकल्पनयेत्यस्यापि वाचाटवचसोऽवकाशप्रसङ्गात् । प्रतीयमानत्वादिति चेत्, तुल्यम् ।
।
शङ्क ० टी० । नन्वेकं स्थूलमित्यवयविगोचरं ज्ञानम्, तच्च द्विचन्द्रादिज्ञानवद्विसम्वादीति नावयविनि प्रमाणमित्यत श्राह । प्राप्तेरिति । श्रचान्यथामिद्धिमाह । ते द्वे इति । प्राप्यर्थक्रिये दूत्यर्थः । अत्र विनिगमनाविरहं तावदाह | न तेषामिति । तस्यैवेति । श्रवयविन इत्यर्थः । बाधकादिति । यदि गुणी स्थिरः स्यान्न क्रमेण कुर्यान्न वा युगपत्, यदि चावयवो पटादि: स्यात्तदा रक्तारतविरोधः स्यादिति गुणिनि बाधकमित्यर्थः । एतद्वयबाधकं पूर्वमेव परिचतमित्याह । निषिद्धत्वादिति । किञ्च चणिके परमाणुरूपे च गुणिनि नैतद्वयं बाधकमित्याह । चणिकेति । सम्बन्धाभाव इति । गुणिनि बाधकमित्यनुषञ्ज
For Private and Personal Use Only