________________
Shri Mahavir Jain Aradhana Kendra
७१८
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
10
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टौ० । सत्यपि समुदायले भेदग्रहात् करभरामभयोर्न प्रतिसन्धानं तत्राह । भेदाग्रहस्येत्यादि । रूपस्पर्शयोरपि भेदग्रहादित्यर्थः ॥
अत एव नैककार्यतयापि, उपादेयरूपस्यैककार्यस्याभावात्। एकोदकाहरणलक्षणार्थक्रियेत्याद्यपि न युक्तम्, रूपाद्यतिरिक्तस्योदकस्यानभ्युपगमात्, एकैकस्यानेकाहार्यत्वे प्रमाणाभावात्, समुदायस्य चासितेः । शङ्क० टी० श्रत एवेति । रूपरसादीनामेकम्य कार्यस्याननुभवादित्यर्थः । उपादेयेति । न हि रूपादिभिरेकं कार्यपादौयत इति तव मम वाऽभ्युपगम दत्यर्थः । ननु रूपादिभिरेकं कार्यं नोपादौयते, तथापि निमित्तमुदका हरणादेर्भवन्येवेत्यत श्राह । एकेति । उदकमपि त्वन्मत्ते रूपाद्येवेत्यर्थः । ननु तथापि रूपाद्यात्मकमेव तत् सर्वेषां कार्यं स्वादित्यत श्राह । एकैकस्येति । रूपजन्ये स्पर्शजन्यतायां प्रमाणाभावात् । तथापि रूपादिममुदायजन्यमेव तज्जलाहरणमत श्राह । ममुदायस्येति । तदर्थमेवैककार्यत्वस्यानुमरणात् तत्र च प्रमाणाभावादित्यर्थः ॥
रघु ० टौन रूपाद्येकैकात्मक मुदकं नानेकरूपाद्याहार्थं मानाभावात् ममुदायाभावाच्च न ममुदायस्य समुदायादार्यत्वमित्याह । एकैकस्येति ॥
For Private and Personal Use Only