________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः ।
।
रूपस्पर्शममुदाय श्राधारोऽन्यश्चाधेय इति । परस्परेति । रूपस्पर्शयोस्तन्मते वास्तव स्यैकदेशतित्वस्यासम्भवाद्वैज्ञानिकं तद्वाष्यम्, तथा चैकदेशवृत्तितायां जातायां समुदायप्रतिसन्धानं प्रतिसंहिते चममुदाये एकदेशवृत्तित्वज्ञानमित्यर्थः । समुदायस्याधारत्वे दोषान्तरमाह । अनवस्थेति । यद्वा आधारस्य ममुदायस्य समुदायत्वमेकममुदायाश्रयतया एकसमुदायवृत्तितया वा श्राद्ये परस्पराश्रयो द्वितौयेऽनवस्येत्याह । परस्परेत्यादि ॥
७१७
अत एव नैककालतयापि, तयोरेककालतायां प्रमाणाभावात्, भावे वा रासभकरभयोरप्येककालतया समुदायत्वप्रसङ्गः, भेदाग्रहस्य प्रकृतेष्यसम्भवात् । शङ्क० टी० । श्रत एवेति । समुदायमित्यनुवृत्तेन सम्बन्धः । रूपरसादीनामेकेन्द्रियग्राह्यत्वादेवेत्यर्थः । प्रमाणाभावमुक्त्वाऽतिप्रसङ्गमाह । भावे वेति । ननु रासभकर भयो रेककालतायामपि भेदग्रहादेव न ममुदायव्यवहार इत्यत श्राह । भेदेति । रूपरमादौनामपि भेदेनैव ग्रहादित्यर्थः ॥
भगी. टौ० । भावे वेति । तथा च य एव रासभ: म एव करभ इति प्रतिमन्धानं स्यादित्यर्थः । न च समुदायत्वेपि भेदग्रहात्तत्र न प्रतिसन्धानमित्याह । भेदेति । रूपस्पर्शयोरपि भेदाग्रहादित्यर्थः ॥
For Private and Personal Use Only