________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२
आत्मतत्त्वविवेक सटौके
त्यनुभवबलात् । तदिदं चाक्षुष स्यानि च प्रत्यक्ष रूपमात्रविषय म्पर्शमात्र विषयं वा । ममुदायो रूपम्पयोः ॥
न तावदद्यः, न हि यदेव रूपं स एव स्पर्श इति। न च रूपं त्वगिन्द्रियग्राह्यम्, अन्धस्यापि नौलादिप्रत्ययप्रसङ्गात्। न चैकमेव वस्तु करणभेदनान्यथा प्रथत इति युक्तम्, अनात्मकत्वप्रसङ्गात्, भेदाभेदव्यवस्थानुपपत्तेश्च ।
सङ्क० टो। रूपमात्रविषयत्वे दोषमाह। न हौति । स्पर्शमात्रविषयत्वे तु तद्वैपरौत्येनापादनम् । दोषान्तरमाह। न चेति। रूपस्य त्वगिन्द्रियग्राह्यत्वे दोषमाह। अन्धस्येति । नन रूपमेव त्वचा स्पर्शत्वेन ग्यत इत्यत आह । न चेति । दन्द्रियभेदेन जनिते ज्ञाने प्रकारभेदानुपलब्धेः रूपत्वम्पर्णत्वे जातौ परं भिन्नेन्द्रियवेद्य न तु जातिमदपि तथेति यदि तदा तद्वस्तु न रूपं स्यान्न वा स्पर्श: स्यात्, विरुद्धत्वात् इत्याह। प्रनात्मकलेति । भेदाभेदेति । अभिन्नस्यैव करणाभेदेन विभिन्न प्रकारकप्रथामम्भवादित्यर्थः ॥
भगौ० टौ। ननु रूपस्पर्शयोरभेदेपि रूपस्पर्णत्वे जातो भिन्ने, तत्र रूपत्वेन तदहश्चाक्षुषः, स्पर्णत्वेन तु स्पार्शन इत्याशय निराकरोति। न चैकमेवेति। अनात्मकत्वेति । व्यक्तियोग्यतयैव जातेोग्यत्वादे केन्द्रियग्राह्यत्वे रूपस्पर्शयो रूपत्वस्पर्शत्वयोरपि
For Private and Personal Use Only