________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
मन्दप्रयोजनत्वादिति । उपनिषदभ्यासजनितात्मसाक्षात्कारा वेदान्तिनो मोक्षाय त्वरमाणा: प्रपञ्चविचारे प्रयोजनाभावमाकलयन्तस्तत्रोदामत इत्यर्थः । तहि नैयायिका अपि मुमुक्षवस्तेषां कथमत्राग्रह इत्यत आह । तौति । श्रवणानन्तरं यन्मननं तत्रान्चौक्षिको प्रवृत्तिस्तत्र मनने हेतुदृष्टान्तपक्षव्याप्यादिज्ञानं प्रमारूपं प्रयोजक, प्रमा च यथार्थानुभवरूपेति प्रपञ्चसत्यत्वे परं तदपपद्यत इति तदर्थोऽभिनिवेश इत्यर्थः ॥
भगौ० टौ. । प्रकृतमुपसहरति । तस्मादिति । सम्पति लोकोऽलोको यज्ञोऽयज्ञ इत्यादि अतिविरोधं परिहरति । मन्देति । उत्पन्नतत्त्वसाक्षात्कारस्य लोकोपजीवनमफलमिति
तेस्तात्पर्यमित्यर्थः । नन्वेवं तत्त्वसाक्षात्कारात् प्राक् किमर्थं तस्य लोकोपजौवनमित्यत पाह। तौति । लोकमिद्धप्रामाण्यन्यायेनात्मनि मननाच्छङ्काकलकापगमात् ध्यानादौ बढ़ायामसाध्ये प्रवृत्तिरिति ततः प्राक् तदपजीवनमित्याह । महमेवेति ॥
॥ इति बाह्यार्थभङ्गवादः ॥
For Private and Personal Use Only