________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
७०७
शाङ्क० टौ । भवेदेवं यदि लक्षणभेदोऽनयोरवस्थयोः स्थादित्यत आह । तथापौति । ननु लोकस्यापि भेदव्यवस्थितिलक्षणाधीनेत्याह । किमिति । अहं धवलग्टहे मध्याहे हस्तेन पायसं भुन इत्यत्र कर्नादौनां मर्वेषां वाध: । ननु मर्वबाधे कथं ज्ञानं निरालम्बनं कथं वाऽन्यथाख्यातिः कुच वाऽरोपः कथं वा जागरानन्तरमपि क्वचिदपि मम्वाद इत्यत आह । काकतालोयति । अन्यथानुपपत्त्यैवारोपविषयाणामन्ततो बहिरादौनां मन्दतरतमादिभावेन शब्दाधुपलम्भादिति भावः । स्वप्नस्येति । लक्षामित्यनुवर्तनीयम् । एवं जागरस्येत्यत्रापि । एतेनेति । लक्षणान्तरेणा विभागव्यवस्थापनेनेत्यर्थः । अवस्थाविशेष इति । मिद्धोपमतान्तःकरणावस्थाविशेषः, तथा खानवहनाडौ विशेषमयोगजं जानं स्वप्नः । तदितरज्ञानं जागरः । स्वप्नवजागरत्वे जातिविशेषौ वा । न चानु मितित्वादिना परापरभावानुपपत्तिः, मर्वस्वप्नानां माक्षात्का(योरिखभावरूपत्वात् । अत एव न स्मृतित्वमार्यमपौति भावः ॥
भगौ. टौ० । बाध्यः प्रबन्धो यस्येत्यर्थः । प्रबन्धस्य स्वप्नस्यैव यहाधकं तदादौ यस्य, बाध्यः प्रबन्धः स्वप्न एवान्ने यस्य तत्तयेत्यर्थः । यद्यप्येतद्यथाश्रुतमव्यापकमतिव्यापकं च, तथापि स्वप्नवहनाडोसंयोगजं जानं स्वप्नः, तदन्यज्ञानं जागरः । जातिविशेषो वा। न चानुमितित्वेन परापरभावानुपपत्तिः,
For Private and Personal Use Only