________________
Shri Mahavir Jain Aradhana Kendra
७०६
www.kobatirth.org
आत्मतत्त्वविवेके सटोके
Acharya Shri Kailassagarsuri Gyanmandir
शङ्क० टी० । एतेनेति । तथ्यातथ्य विभागव्यवस्थापनेनेत्यर्थः । यद्वा भ्रमस्यान्यथाख्यातित्वव्यवस्थापनेनेत्यर्थः । तथा च जागरज्ञानं न प्रमा ज्ञानत्वात् स्वप्नज्ञानवदित्यादौनामनवकाश इति भावः । स्वप्नज्ञानानामप्रामाण्यमन्यथाख्यातिरूपतयैव वाच्यम् । मा च तत्त्वख्यातिपूर्विकैव तत्त्वख्यातिश्च जागरावस्थज्ञानविशेष एवेत्याह । श्रमत्ख्यातेरिति ॥
भगौ० टौ० । जागर ज्ञानमप्रमा ज्ञानत्वादित्यप्रमामाधकं प्रमात्वोपस्थितौ न सम्भवतीत्याह । एतेनेति ॥
О
रघु ० टौ । जागरप्रत्ययो भ्रान्तः, प्रत्ययत्वात्, स्वप्नप्रत्ययवदिति मतं निरस्यति । एतेनेति । यत्किञ्चिन्नागरप्रत्ययस्य भ्रान्तत्वे साध्ये सिद्धसाधनम्, यावतां तथात्वे चैतदनुमितिप्रामाण्याप्रामाण्याभ्यां व्याघात इति ॥
तथापि कथमनयोरवस्थयोर्विभागः कर्त्तव्य इति चेन्न । लोकसिद्धत्वात् । किमनयोर्लक्षणमिति चेत्, कर्तृकर्मकरणदेशकालप्रबन्धबाधः काकतालीयसम्वादवान् स्वप्नस्य, प्रबन्धे काकतालीयः कस्यचिदेव विषयस्य बाधो जागरस्येति । एतेन बाध्यप्रबन्धोऽवस्थाविशेषः स्वप्नः प्रबन्धबाधकादिर्वाध्यमानप्रबन्धान्तो जागरितमित्यपि द्रष्टव्यमित्येषा दिक् ।
For Private and Personal Use Only