________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
यनिश्चयस्तदति विशेषे न तत्संशयः, व्याप्यतावच्छेदकरूपवत्तया ज्ञानस्यैव मंशयप्रतिबन्धकवादित्यर्थः । एतदेवानुरूपदृष्टान्तेन स्पष्टयति । यथा चेति ॥
रघु० टी०। ननु धर्मिज्ञानादौ कुतो न प्रामाण्यसंशयः, किं माधारणधर्मविरहादत विशेषदर्शनात्, नाद्यः, ज्ञानत्वादेरेव मत्त्वात्, विशेषच प्रामाण्यं तस्य दर्शनं चानुमितिः, मा च पक्षादिज्ञानमापेक्षा, तत्राप्यप्रामाण्यशङ्कानिरामस्तत्प्रामाण्यानुमिते रित्येवमनवस्थेति शङ्कते । स्थान्मतमिति। न केवलं कोटिनिश्चय एव विपरौतशङ्काप्रतिबन्धकोऽपि तु व्याप्यादिदर्शनमपौत्याशयेन निराकुरुते। न व्याप्तौति । साक्षात् विशिष्य । प्रात्मनि विशेषात्मनि। प्रकृते अनुव्यवसायधर्मिज्ञानादौ । तद्धर्मवत्त्वात् प्रवृत्तिरिति यावत् । अनुव्यवसायवेति । धर्मिजानत्वव्याप्यवद्विशेष्यक-व्यापक-ज्ञानत्वयोरप्युपलक्षकम् । सामान्यतः प्रामाण्य निश्चयेपि विशेषतः कथं न तत्संशय इत्यत श्राह । न चेति । यथा धूमत्वावच्छेदेन वहिव्याप्यत्वनिश्चयेऽयं धूमो वहिव्याप्यो न वेति यथा वा करचरणादिकं स्थाणत्वाभावव्याप्यमिति निश्चयेऽयं करचरणादिमानिति ग्रहेऽयं स्थाणर्न वेति न संशय इति । विस्ततं चेदमन्यत्र । वाचकः शकः शब्दोऽर्थप्रत्यायकः ।।
तर्काश्चात्र भवन्ति । यदि धर्मिज्ञानं व्यभिचरेत, निरालम्बनमसदालम्बनं वा भवेत्, निषिद्धं च तत् ।
For Private and Personal Use Only