________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
६६३
अनुव्यवमायेन ज्ञाततालिङ्गकानुमानेन वेत्यर्थः । कथं नेत्यत पारन । अन्यथेति । अयं वहिरेवेत्यपरिचितवहेरपि शब्दादिना जाधमाने जाने प्रामाण्यस्य स्वयं ग्रहणापत्तेः, तथा च प्रामाण्याप्रामाण्यकोटिकः संभयो न स्यादित्यर्थः । ननु क्वचिदित्यभ्यासर प्रापत्रमेव ज्ञानं ब्रमः, तच्च स्वतो ग्टह्यताम्, न हि तत्रापि
योऽस्तौत्यत आह । अभ्यामदशति । तत्रापि तज्जातीयत्वे न लिङ्गेनैव प्रामाण्यं ग्टह्यते । तथाहि । अयं पृथिवौत्वेनानुभवः पृथिवौत्ववति पृथिवीत्वप्रकारकः, गन्धरदिशेय्यक पृथिवौत्वप्रकारक निश्चयत्वात् पूर्वपृथिवौत्वप्रकारकनिश्चयवत् । एवमयं शरौरवेनानुभवः शरीरत्ववत्येव गरीरत्व प्रकारकः, करचरणादिमधिपोथ्यकशरोरत्वप्रकारकानुभवत्वादित्यााह्यम्। तज्जातीयत्वं लक्षण वद्विशेष्यकलक्ष्यज्ञानत्वं द्रष्टव्यम् । व्याप्नोति । यो गन्धवद्विशेष्यकः पृथिवौत्वप्रकारकानुभवः स पृथिवौत्ववत्यव पृथिवौत्वप्रकारक इत्यादिप्रकारेण यड्याप्तिग्रहणं तज्जनितो यः संम्कारस्तत्प्रभवं यस्मरणमित्यर्थः । प्रमाणान्तरमनुमानम्, तत्रैवान्तर्भवतीत्यर्थः ॥
भगौ • टो० । ननु क्वचिदने संशयाभावात् पूर्व प्रामाण्यनिश्चयो भवत्येव, मायालिङ्गिनि मति झटिति परिव्राजकबुद्धिवदित्याह । स्फुरणामात्रमपौति । तादृशस्य प्रामाण्यग्रहस्य विशेषदर्शनाजन्यम्या प्रमाणसाधारणतया न निष्कम्पप्रवृत्त्यङ्गत्वमित्याह । किं तेनेति । विशेव्यावृत्त्यप्रकारकत्वं न ज्ञानमात्रग्राहिणा ग्रहोतं
For Private and Personal Use Only