________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६६१
निवृत्तिमात्र विशेषदर्शनेन क्रियत इत्याह । शङ्केति । निश्चितमेव प्रामाण्यं शङ्कानिवर्त्तनेनाप्रत्यहं निष्कम्पप्रवृत्तिजनक क्रियत इति योजना । अन्यथात्व इति । तथाभूतस्य प्रमाणत्वमित्यपि मन्तव्यम् । निश्वयेति । अमौ प्रामाण्यनिश्चयः । यदि ज्ञानग्राहकेणैव प्रामाण्य यहस्तदा निश्चिते नाप्रामाण्यशङ्का, अतस्तदनुरोधादन्यदेव प्रामाण्यग्राहकमेषितव्यमित्यर्थः ॥
रघु० टौ. । स्फरेदपौत्यपिना स्वाभिप्रेतं पारमार्थिकमस्फरणं सूचितम् । शङ्केत्यादि । तत् प्रामाण्यम् । विपरीतकोटिशाशून्यं प्रामाण्य ज्ञानमेव तनिश्चय इत्यर्थः । निश्चयफल प्रामाण्यनिश्चयस्य जनकम् । अन्यथा तस्याजनकम् । असो प्रामाण्यनिश्चयः ।
स्फरणमात्रमपि तावदस्तु स्वत इति चेत्, किं तेन। न चैतदपि, अननुसंहितोपाधेरुपहितप्रत्ययायोगात् । न च विषयोपधानमात्र प्रामाण्यम्, तदाभाससाधारण्यात् । अपि त्वनुभवस्य सतो भूतार्थानुसन्धानम् । न चार्थानुसन्धानेपि तस्य भूतत्वमनुसन्धीयते, आरोपितत्वव्यावर्त्तकविशेषणाननुसन्धानात्। अननुसंहितस्य चारोपसाधारण्यात् । क्वचिद्दिशेषोप्यनुसन्धौयत इति चेत्, न कापि प्राथमिकेन । अन्यथाइनभ्यासदशायां तचापि संशयो न स्यात् । अभ्यास
For Private and Personal Use Only