________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
आत्मतत्त्वविवेके सटौके
ततो यदि प्रामाण्यमापाततः स्फुरेदपि, तथापि नियमहेतोरभावात् प्रमाणमेवेदमिति निश्चयः कुतः, स च मृग्यते, पारलौकिकव्यवहाराङ्गत्वात्।। शङ्कानिवर्त्तनेन तदप्रत्यहं निश्चितमेवेति चेत्, तन्निवृत्तिरेव कुतः। प्रमाणान्तरादिति चेत्, तदपि निश्चयफलमन्यथा वेति । अन्यथात्वे न शङ्काविच्छेदो निश्चयसाध्यत्वात्तस्य । निश्चयफलत्वे तु यो मृग्यते नासौ स्वत इति ।
शङ्क० टौ । दोषं स्पष्टयति । तत इति । ननु सन्देहादपि प्रवृत्तः किं प्रामाण्य मिश्चयेनेत्यत आह । पारलौकिकेति । ऐहिकी प्रवृत्तिरस्तु यथा तथा, पारलौकिकी तु प्रवृत्तिवित्तव्ययायासफला प्रामाण्यनिश्चयं विना न स्यादेवेत्यर्थः । ननु स्वग्राहकादेव प्रामाण्यग्रहोऽप्रामाण्य शङ्का तु कुतश्चित्रिवय॑तौत्याह । शङ्केति । तदपौति । शङ्का निवर्तकं प्रमाणमित्यर्थः । अन्यथात्वे अनिश्चयफलत्वे । निश्चयफलव इति । येन प्रमाणेन शङ्कापरिभवक्षमः प्रामाण्य निश्चयो जननौयो म तदनुव्यवमायरूपं प्राकट्य लिङ्गरूपं वेत्यर्थः ॥
भगौ० टी० । म चेति । यद्यपि प्रवृत्तिमात्रे प्रामाण्य ग्रहो नाङ्गम्, तथापि बहुव्ययायाममाध्यनिष्कम्पप्रवृत्तौ तथेति भावः । ननु ग्राहकमामय्या तत्प्रामाण्यनिश्चयेपि अप्रामाण्यशङ्का
(१) इत्वाच्च इति २ पु० पा०
For Private and Personal Use Only