________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६७७
म विषयकयावदनुभवग्राहकानुभव(१)ग्राह्यं न वा तज्ज्ञानप्रामाण्यं तज्ज्ञानविषयकजन्यज्ञानाजन्यजन्य ज्ञानग्राह्यं न वेत्या ह्यमित्यलमतिपाण्डित्येन ।
विशिष्य तु घटोयमितिज्ञानप्रामाण्यमेतज्ज्ञानानुभव विषयताव्यापकानुभवविषयताश्रयो न वा; एतज्ज्ञानप्रामाण्यमेतज्ज्ञानविषयो न वा, अनुभवानुव्यवमायत्वं प्रामाविषयताव्याप्यं न वा, तज्ज्ञानप्रामाण्य तज्ज्ञानभिन्नसाक्षात्कार ग्राह्य न वा, तज्ज्ञानप्रमाणन तज्ञानविषयकजानाजन्यानुमितिमाह्यं न वेति वा ।
खमम्वेदनस्येति । ज्ञानं खात्मानमेव न रहाति दूरे खधर्मप्रामाण्य ग्रहण केत्यर्थः । धर्मधर्मिणोरभेदे चाप्रामाण्यमपि स्वत एव ग्टह्यते ति भावः । ज्ञानं स्वव्यवहारे प्रकाशान्त रानपेक्षम्, प्रकाशत्वात्, प्रदीपवदिति शङ्कते । प्रकाशत्वम्येति । प्रकाशत्वं यदि तेजस्वं तदा स्वरूपामिद्धिर्यदि ज्ञानत्वं (चेत्) तदा माधनधिकलो दृष्टान्तः, प्रकाशशब्दवाच्यत्वं चेत्, तदा गोपदवाच्यतया वागादौनामपि विषाणित्वप्रसङ्ग इत्याह । अमाधारणत्वादिति । ननु जानामौति प्रत्यक्षमेव स्वप्रकाशे प्रमाणमित्यात प्राह । न चेति । ग्राह्यज्ञान भिन्नं ज्ञानं तदेव वा ज्ञानमिति मन्दिग्धभेदत्वान्न प्रकाशे प्रमाणमित्यर्थः । इति चेदित्यन्तं शङ्कते । अप्रत्यक्षेति । यदि जानं प्रत्यक्षं न भवेत्तदाऽर्थदृष्टिरेव न सिद्धयेत् ज्ञानमेव न मियदित्यर्थः । ननु ज्ञानान्तरेणैव जानं ग्राह्यतामत शाह । परेणेति । ज्ञानान्तरेण
(१) अनुभवविष यताश्रयो न वा इति ३ पु० पा० ।
For Private and Personal Use Only