________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१८
यात्मतत्त्वविवेक सटीक
ग्रहणणे दोषान्तरमाह । न चेति । नैष दोष इति । न मन्दिग्धभेदत्वं दोष इत्यर्थः । तथा च परिशेषात् स्वमेव खस्मिन् प्रमाणम्, तच्च स्वप्रकाशमन्तरेण न स्थादिति भावः ।
भगौ० टौ । कथन्तेति । तद्हणोपाय इत्यर्थः । खत इति । यद्यपि ज्ञानवनिश्चायकयावनिश्चयत्वं प्रस्वतस्त्वं, अप्रामाण्य निश्चायकेन नदनिश्चयात् । नाप्यप्रामाण्याग्राहक जानग्राहकयावनिश्चयत्वम्, जानादिपदेन जातिप्रनिनिमित्तकेन विषयानुव्यवमायेनाप्रामाण्यग्राहकेण प्रामाण्या निश्चयात्, तथा प्य-- प्रामा पट्रोल्लेखासाधाणहेतुरहितमविषय ज्ञानग्राहकयावशाह्यत्वं स्वतस्त्वम् । ज्ञानादिपदेन च न विषयग्रहः । तज्ज्ञानविषयकज्ञानाजन्यसप्रकारकज्ञानग्राह्यत्वं वा । एवञ्च स्खेन तदनुव्यवसायेन ज्ञाततानुपपत्तिकल्पनया वा ग्राह्यत्वं मङ्गहौतम् । विशिष्यैव वा घटोऽयमिति ज्ञानप्रामाण्यमेतद्विषयविशिष्टतवाहकमात्रग्राह्यत्वं स्वतोग्राह्यत्वं तदन्यथाग्राह्यत्वं च परतस्त्वम् । तत्र स्वात्मना यदि खं ग्टह्येत तदा स्वधर्मः प्रामाण्यं ग्रहोत, धर्म्यग्रहे धर्मस्याग्रहात्, तदेव त्वमिद्धमित्याह । स्वमम्वेदनस्येति । स्वप्रकाशेपि स्वमात्रग्राहिणः स्वधर्मग्राहकत्वमसम्भवि, धर्मधर्मिणोरभेदे चाप्रामाण्यम्यापि स्व(तो)ग्राह्यत्वप्रसङ्ग इति भावः । ननु ज्ञानं स्वव्यवहारे सजातीयान्तरानपेक्षम्, प्रकाशत्वात्, दोपवदिति स्वप्रकाणे मानमित्यत आह । प्रकाशत्वस्येति । प्रकाशवं यदि तेजस्त्वं तदाऽमिद्धिः, ज्ञानत्वं चेत्तदा दौपादपि व्यावृत्तेरमाधारण्यमित्यर्थः ।
For Private and Personal Use Only